This page has not been fully proofread.

न्यायकोशः ।
 
इति जगदीश आह । गदाधरमते तु तयोर्भेद इत्यवच्छेद्यावच्छेदकभावः
स्वीकर्तव्यः । स चेत्थम् । दण्डत्वनिष्टप्रकारतानिरूपित विशेष्यत्वावच्छिन्ना
या पुरुषनिष्ठविशेष्यतानिरूपिता दण्डनिष्ठा प्रकारता तद्वान् दण्डो
भवतीति । एवं वैपरीत्येनापि पुरुषनिष्ठविशेष्यतानिरूपित दण्ड निष्ठप्रकार-
त्वावच्छिन्ना या दण्डत्वनिष्ठप्रकारतानिरूपिता दण्ड निष्ठविशेष्यता तद्वान्
दण्डो भवतीति ।
 
विशेष्यता–व्यावर्साभाववत्तैव भाविकी हि विशेष्यता ( सर्व० सं०
पृ० ४४२ शां० ) ।
 
विशेष्यासिद्धः – ( हेत्वाभासः ) यो हेतुः स्वघटक विशेष्य विशिष्टः सन्पक्षे
न तिष्ठति न सिध्यति च सः । यथा शब्दो नित्यः अस्पर्शत्वे सति
द्रव्यत्वादित्यादौ हेतुर्विशेष्यासिद्धः । अत्र अस्पर्शत्वविशिष्टं द्रव्यत्वं हेतुः ।
सच शब्दे नास्त्येव । शब्दे अस्पर्शत्वरूपविशेषणस्य सत्त्वेपि द्रव्यत्वात्म-
कस्य विशेष्यस्याभावात् इति । अत्र विग्रहः विशेष्येणासिद्धः इति । स च
"विशेष्यासिद्धः स्वरूपासिद्धप्रभेदः (त० मा० पृ० ४६ )।
विशोका – ( सिद्धि ) सर्वभावाधिष्ठातृत्वादिरूपा ( सर्व० सं० पू०
 
३८५ पात० ) ।
 
७९१
 
-
 
विश्वासः - १ वञ्चकत्वाभावसंभावना । यथा न विश्वसेदविश्वस्तम् (पञ्च-
त० ) इत्यादौ । २ इदमित्थम् इत्याकारश्चित्तवृत्तिविशेषः इत्येके बदन्ति ।
विषय:- १ विषयतावान् । यथा अयं घटः इति ज्ञाने घटत्वम् विषयः ।
जगत् प्रमेयम् इति ज्ञाने प्रमेयत्वेन जगद्विषयः । विषयता चात्र विषयः
इत्या कारकप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः ( न्या० म० ख० १
पृ० ४ ) । घटो ज्ञानविषयः पटो ज्ञानविषयः इत्यनुगतप्रतीतिसाक्षिको
ज्ञान विषयस्वरूपसंबन्धविशेषः इत्यर्थः ( त० प्र० ) । अत्र ज्ञानविषयत्वं
च ज्ञानसंबन्ध एव इति । इयं विषयता त्रिविधा विशेष्यता प्रकारता
संसर्गता चेति । यथा अयं घटः इति प्रत्यक्षे घटत्वे प्रकारता इदम
विशेष्यता समवायादौ संबन्धे च संसर्गता (कु० ४ ) ( त० प्र० ) इति ।
• विषयता च पदार्थान्तरमेव । तथा च विषयता विषयिता च न स्वरूप-