This page has not been fully proofread.

७९०
 
D
 
न्यायकोशः ।
 
विशेषविधिः—सामान्यविशेषयोर्मध्ये विशेषे विधानम् । यथा ब्राह्मणेभ्यो
• दधि दीयताम् कौण्डिन्याय तक्रम् इत्यत्र कौण्डिन्यस्य ब्राह्मण विशेषत्वेन
तद्विषये दधिदानापवादेन तऋदान विधिर्विशेष विधिर्भवति। अत्रोच्यते
अल्प: स्याद्विषयो यस्य स विशेष विधिर्मतः ( व्या० का० ) इति ।
विशेषसमः- ( जाति: ) धर्मेणैकेन केषांचिदविशेष प्रसञ्जनम् । साधन-
• प्रतिबन्धाय स विशेषसमो मतः ॥ ( ता० २० परि० २ श्लो० १२१)।
अत्रापेक्षणीयोदाहरणादिकं तु अविशेषसमः इति शब्दव्याख्याने ( पृ०
(९५) यत् प्रदर्शितम् तदेवात्र ग्राह्यम् । अत्र धर्मेणैकेनेत्युक्तश्लोके
 
अविशेषसमः इत्यपि पाठः ।
 
a
 
विशेषितम् - १ विशिष्टम् । यथा याप्यते ग्राममजा इत्यादौ स्वनिर्वा
कर्तृतानिरूपकत्व संबन्धेन व्यापारविशेषितधात्वर्थः कर्तृत्वेन्वेति (ग
1. व्यु० का० २ पृ० ४८) इत्यादौ विशेषितशब्दस्यार्थो विशिष्टं भवति ।
 
२ भेदितम् । ३ विशेषयुक्तम् ।
 
विशेष्यः– विशेष्यतावान् । यथा भूतले घटो नास्ति इति प्रत्यक्षे
 
भावो विशेष्यः । अत्र विशेष्यता च स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः
संनिकर्षविशेषः ( नील० १ पृ० १८ ) । स्वरूप संबन्धावच्छिन्नाघेयता-
संसर्गावच्छिन्नप्रकारता निरूपित विशेष्यता इति तु वयं ब्रूमः । यथा वा
 
यात्र
 
• नीलो घटः इत्याकारकशाब्दबोधे घटो विशेष्यः । अत्र इयं विशेष्यता
• तत्तज्ज्ञानीयो यत्किंचित्प्रकारतानिरूपितः संसर्गताभिन्नो विषयताविशेषः
केनचिदपि संबन्धेनावच्छिन्ना न भवति इति वदन्ति । विशेष्यता च
इति केचित् । भासमानवैशिष्ट्यानुयोगित्वमिति संप्रदाय: (कु० ४) ।
अत्र वैशिष्ट्यं च संबन्ध विशेषः । अत्रेदमवधेयम् । मध्यवर्तिविषयतयों
रैक्यमेव इति जगदीशचक्रवर्तिनः पक्षः । मध्यवर्तिविषयतयोर्भेद एवेति
गदाधरभट्टाचार्याणां पक्षः । यथा हि दण्डवान् पुरुष इत्यत्र पुरुष
दण्ड: प्रकार: दण्डे च दण्डत्वं प्रकारः इति स्थितिः । एवं च दण्डव
निष्ठप्रकारतानिरूपिता विशेष्यता पुरुषनिष्ठविशेष्यतानिरूपिता प्रकारता
च एतद्वयं दण्डे तिष्ठति । तथा च मध्यवर्तिनोस्तयोद्वयोर्विषयतयोस्क्यम्