This page has not been fully proofread.

न्यायकोशः ।
 
७८७
 
विशेषकः-१ इतरव्यावर्तकधर्मः ( गौ० वृ० ३ । २ । ३८) । यथा गवादेः
सास्ना दिमत्त्वं विशेषकः । २ एकवाक्यतापनं श्लोकत्रयं विशेषकम् इति
कवय आहुः । ३ ललाटे अलंकारभूतस्तिलकः भूषणं च इति काव्यज्ञा
• वदन्ति ( माघ ० ३।६३ ) ।
 
विशेषगुणत्वम् –[क] द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिगुण-
वृत्तिजातिमत्त्वम् (त० दी० ४ पृ० ३९ ) । तदर्थश्च पृथिवीत्वजलत्वा-
द्यात्मकं यद्रव्यविभाजकोपाधिद्वयम् प्रत्येकं तत्समानाधिकरणाः द्वित्व-
द्विपृथक्त्वसंयोगादयः तदवृत्तिजातिमद्दुत्वम् इति । तथा च विशेष-
गुणेषु लक्षणसमन्वयः क्रियते । रूपादिषु चतुर्षु तादृशलक्षणघटक -
 
(150
 
Ipe
 
1103
 
जातिम् रूपत्वादिकामादाय सांसिद्धिकद्रवस्त्रे च द्रवत्वत्वावान्तरजातिम्
स्नेहादिषु दशसु स्नेहत्वादिकाम् भावनायां संस्कारत्वावान्तरजातिं चादाय
लक्षणसमन्वयः । अत्र प्रवदन्त्यभिज्ञा निष्कृष्टार्थम् । यद्रूपावच्छिन्न-
समानाधिकरणं यत्किंचिद्द्रव्यविभाजकोपाधिद्वयम् तद्भिन्ना स्थितिस्थापक-
वृत्तिभिन्ना च या जातिः तद्वत्त्वे सति गुणत्वम् इति । तेन एकत्वादि-
संख्यायाम् परिमाणादौ च नातिव्याप्तिः (नील० गु० पृ० ३९ ) इति ।
" विशेषगुणाश्च षोडश रूपम् रसः गन्धः स्पर्श: सांसिद्धिकद्रवत्वम् स्नेहः
शब्द: बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्म: भावना
चेति ( भा०प० गु० श्लो० ९१-९२) । [ख ] भावनान्यो यो
वायुवृत्तिवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्य-
गुणत्वम् । अत्रत्यपदानां प्रयोजनानि कथ्यन्ते । जात्यादावतिव्याप्ति-
वारणाय गुरुत्वाजलेत्यादि विशेष्यदलम् । गुरुत्व नैमित्तिकद्रवत्वयोर्वारणाय
गुरुत्व इत्यादि । सांसिद्धिकद्रवत्वसंग्रहाय अजल इति । संयोगादि-
वारणाय सत्यन्तं दलम् । भावनायामव्याप्तिवारणायाद्यम् अन्यान्तं सत्य-
•न्तघटक समवायिविशेषणम् । सत्तादिकमादायासंभववारणाय स्पर्शसंग्रहाय
च स्पर्शावृत्ति इति ( दि० गु० पृ० १९३) ।
विशेषणम् –१ विशेषणतावत् । विशेषणता च द्विविधा । तत्र प्रथमा यथा
• घटाभाववद्भुतलमित्यत्र घटाभावे विशेषणता । इयं विशेषणता च स्वरूप-