न्यायकोशः /84
This page has not been fully proofread.
३०
न्यायकोशः ।
च० २० ) । [ ख ] अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यव-
हारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोनुभवि-
तुरात्मनो धर्मविशेषः (सर्वद० सं० पृ० ९८ रामानु० ) ।
अनुमतिः - १ अनुज्ञा । यथा अनुमत्या व्यपेयादित्यादौ । २ कलाहीन-
चन्द्रवती शुक्लचतुर्दशीयुक्ता पूर्णिमा तिथिरिति याज्ञिका आहुः (वाच०) ।
अनुमा - अनुमितिः (मु० २) । यथा - अनुमायां ज्ञायमानं लिङ्गं तु करणं
न हि (भा० प० श्लो० ६८ ) इत्यादौ - अनुमा शब्दस्यार्थः ।
अनुमानम् – ( प्रमाज्ञान विशेषः ) यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्ने-
ग्रहणमनुमानम् (वात्स्या० २१११४६ ) । अत्र मितेन लिङ्गेनार्थस्य
पश्चान्मान मनुमानमिति व्युत्पत्तिः ( वात्स्या० १ । १।३) । अनुमानस्य
द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति । तत्र व्याया साभ्यसामान्यसिद्धिः ।
हेतोः पक्षधर्मताबलात् साध्यस्य पक्षधर्मत्वविशेषः सिध्यति । पक्षधर्मेण
धूमवत्त्वेनाग्निरपि पर्वतसंबद्ध एवानुमीयते ( त० मा० १४ ) ।
अनुमानम् - ( प्रमाणम् ) १ अनुमितिकरणम् ( त० स० ) । अनु-
मितिकरणं द्विविधम् । तत्र प्रथमं व्याप्तिज्ञानम् (गौ० वृ० १११।५) ।
यथा पर्वतो वह्निमान् धूमादित्यादौ धूमो वहिव्याप्यः इति व्याप्तिज्ञान-
मनुमितिकरणं भवति ( त० कौ० १० ) । अनुमानं च लिङ्गलिङ्गिनो:
संबन्धदर्शनम् (वात्स्या० ११११५ ) । तच्च सहचारप्रत्यक्षेण जन्यते
( गौ०
० वृ० १११।५ ) । एतस्य करणत्वाभिधानं च व्यापारवदसाधा.
रणं कारणं करणमिति प्राचीनमतानुसारेण । अस्मिन् मतेनुमितिकरणप-
दस्य जनकतयानुमितित्वावच्छिन्नजनकवत्त्वे सत्यनुमितित्वावच्छिन्नजन-
कम् इत्यर्थः ( वाक्य ० ) । अत्र व्यापारस्तृतीयलिङ्गपरामर्शो ज्ञेयः ( त ०
कौ० ) । द्वितीयमनुमितिकरणं तु लिङ्गपरामर्शः । यथा वह्निव्याप्यधूम-
वानयम् इति ज्ञानमनुमितेः करणं भवति ( चि० २) (त०भा० ) ( त०
सं० ) । अत्र च फलायोगव्यवच्छिन्नं कारणं करणमिति नवीनमतानुसा-
रेणैतस्य करणत्वाभिधानम् । अनुमानं द्विविधम् । स्वार्थम् परार्थम् ।
स्वस्यैवार्थः प्रयोजनं ( अनुमिति: ) यस्मात्तत् स्वार्थम् । परस्य प्रतिवा-
दिनो मध्यस्थस्य वा अर्थोनुमित्यात्मकं प्रयोजनं संशय निवृत्तिर्वा
तत् परार्थम् । आद्यं खानुमितिहेतुः । द्वितीयं परानुमितिहेतुः
यस्मा-
। तथा
..