2023-12-25 09:33:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७८५
 
त्तेभ्य: प्रत्याधारम् अयमस्माद्विलक्षणः इति व्यावृत्तिप्रत्ययः देशकाल -

विशिष्टे च परमाणौ स एवायम् इति प्रत्यभिज्ञानं च भवति यतः तेन्त्या

विशेषा इति । एते च विशेषाः नित्यद्रव्याणां परस्परभेदसाधका: (नील०

पृ० ९४ ) । अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः एव व्यावृ-

त्तिप्रत्ययः प्रत्यभिज्ञानं वा कल्प्यते इति चेत् न । तादात्म्यात् । इह ता-

दात्म्यकल्पनानिमित्तप्रत्ययो भवति । यथा श्वमांसादीनां स्वत एवाशुचि-

त्वम् तद्योगादन्येषाम् । तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव व्या-

वृत्तिप्रत्ययः । तद्योगात् परमाण्वादिष्विति ( प्रशस्त ० पृ० ६४-६५ ) ।

अत्यन्तव्यावृत्तिहेतुरित्यस्य अयमस्माद्ध्यावृत्तः इति व्यावृत्तिबुद्धिमात्रहेतुरि-

सर्थः इति कौमुदीकाराः (त० कौ० ) । ते खल्त्रयन्तव्यावृत्तिहेतुत्वाद्वि-

शेषा एव (प्रशस्त० पृ० २) इति भाष्यम् । अत्र कन्दलीकार आह ।

खळुशब्दो निश्चये । नित्यद्रव्यवृत्तयो ये विशेषास्ते विशेषा एव निश्चिताः ।

न तु सामान्यान्यपि भवन्तीत्यर्थः । अत्यन्तं सर्वदा व्यावृत्तेरेव स्वाश्रय-

स्येतरस्माद्व्यवच्छेदस्यैव हेतुत्वात् कारणत्वात् (न्या० क० पृ० १४ ) इति ।

[ग] विशेषो नामान्योन्याभाव विरोधिसामान्यरहितः समवेतः ( सर्व०

सं० पृ० २१७ औ०) । विशेषपदार्थस्वीकारस्यावश्यकत्वमिदानीं

प्रदर्श्यते । घटादीनां सावयवपदार्थानां कपालसमवेतत्वादिकं पटादि-

भेदकमस्ति । परमाणूनां तु निरवयवत्वात्परस्परभेदकं न किंचिदस्ति ।

अतोनायत्या विशेष आश्रयितव्यः । अथ वा विशेषानभ्युपगमे समान-

जातिगुणकर्मवतां परमाणूनां मिथो व्यावृत्तिबुद्धिः न स्यात् । तादृशी

बुद्धिस्तु समानजातिगुणकर्मकाः परमाणवः अन्योन्यव्यावर्तकधर्मसंबन्धिनः

व्यावृत्तज्ञान विषयत्वात् द्रव्यत्वाद्वा गवादिवत् इत्यानुमानिकी ज्ञेया

( न्या० ली० पृ० ५३) । व्यावृत्तिबुद्ध्यभावस्येष्टापत्तौ योगिनोपि

तादृशपरमाणूनां ज्ञानसंकरः स्यात् इत्यतस्तव्यावृत्तिबुद्ध्यर्थ विशेषोङ्गी-

कर्तव्यः (त० कौ० पृ० २८ ) ( प्र० प्र० ) इति । स च विशेष:

तथा ह्यनुमानम् शब्दसमवायिकारणता किंचिद्धर्मावच्छिन्ना कारणता-

शब्दसमवायिकारणतावच्छेदकतयापि सिध्यति ( सि० च० ) ।

त्वात् दण्डनिष्ठघटकारणतावत् इति । स च धर्मो विशेष एव । विशेष-
.

९९ न्या० को०