2023-12-25 09:32:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७८३
 
रूपम् तदवच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं यत् स्वम् तदवच्छिन्न-

त्वम् इत्याहु: ( न्या० २० सामा० ) । अत्र तादृशं रूपं च विपरीत-

व्यभिचारत्वादिकमेव इति बोध्यम् । तथा हि । स्वं धूमाभाववद्वृत्तिवह्नित्व-

त्वम् । तत्समानाधिकरणं हेत्वाभासविभजकं रूपं तु व्यभिचारत्वं भवति ।

तत्समानाधिकरणं यद्धूमाभाववद्वृत्तिवह्नित्वत्वावच्छिन्नाविषयक प्रतीतिविष-

यतावच्छेदकं तादृशं रूपं तु वह्निनिष्ठधूमाभाववद्वृत्तित्वत्वमेव भवति ।

तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तु धूमाभाववद्वृत्तित्व-

विशिष्टवह्नित्वत्वं भवति तदवच्छिन्नत्वं धूमाभाववद्वृत्तिवह्नित्वेस्ति इति

लक्षणसमन्वयो बोध्यः । इदं च गदाधर्यो स्वसजातीय विशिष्टान्तराघटि-

तत्वम् इत्युच्यते अयोगोलकं धूमबहे इत्यादौ बाधविशिष्टव्यभिचारा-

दावतिव्याप्तिसंपादकं च भवति इति ज्ञेयम् ( ग० हेत्वा० सामा०

पृ० १५ - १६)। अयं च केचित्तु इत्यादिनोक्तो यः कल्पस्तद्विषये

एवं श्रूयतेस्मद्गुरुमुखात् । अयं कल्पस्तु समासतो गदाधरेण विरचितः

व्यासतः परिष्कृतवद्भ्यो गाडगीळ इत्युपाहेभ्यो वाराणसीग्रामनिवासि-

जगन्नाथशास्त्रिभ्यः संगृह्य पुण्यग्रामनिवासिभिः गोडबोले इत्युपनामक-

मेरुशास्त्रिभिः सम्यक् विरचय्य प्रकटीकृतः इति । [ग] विशिष्टान्तर-

विषयित्वाप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकर-

णताकत्वम् । तादृशोभयाभावश्च प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व

साध्यव्याप्य
हेतुवैशिष्ट्यावगाहित्य एतदुभयाभावः । इदं च सिद्धान्त

सिद्धम् विशिष्टान्तराघटितत्वम् इत्युच्यते । यथा घूमव्यभिचारिवह्निमा

न्धूमबान्वहेरित्यादावपि व्यभिचारघटितबाघस्य व्यभिचाररूप

विशिष्टान्तरा
घटितत्वम् । तथा हि । विशिष्टान्तर (केवलव्यभिचार) विषयित्वाप्रयोज्या

स्व(व्यमिचारघटितबाध) विषयिताप्रयोज्या या तादृशोभयाभावप्रयोजिका

अभावाधिकरणता ( पक्षे साध्यवैशिष्ट्या वगाहित्वाभावाधिकरणता )
..

तत्कत्वं धूमाभाषवद्धूमव्यभिचारिवह्निमति व्यभिचारघटिते बाधे वर्तते

इति तत्र लक्षणसमन्वयो बोध्यः (ग० हेत्वा० सामा० पृ० २०-२५ ) ।
 

 
<
विशुद्धि: - >
१ [ क ] उद्दिष्टपदार्थसंबन्धराहित्यम् । यथा मायावादिनां

वल्लभानां च मते परब्रह्मणो विशुद्धिर्मायासंबन्धराहित्यम् । [ख] -
 
-
 
d