2023-12-25 09:29:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७८१
 
वैचित्र्येण उद्देश्यतावच्छेदक विधेययोर्धर्मिपारतंत्र्येण परस्परं प्रयोज्यप्रयो-

जकभावेनान्वयः । यथा धनवान् सुखी इत्यत्र धनप्रयोज्यत्वस्य सुखे-

ग्वयः । सुरापः पतति इत्यत्र च सुरापानस्य पतने प्रयोज्यत्वेनान्वयः

( ग० सव्य० ) इति । ५ कचित् विशिष्टज्ञानम् । विशेषणवद्विशेष्य-

विषयकं ज्ञानम् इत्यर्थः ( चि० १ पृ० ८२१ ) । यथा अयं दण्डी इति

ज्ञानम् । अत्र ज्ञाने च इदंपदार्थविशेष्यांशे दण्डात्मक विशेषणप्रतियोगिक-

संबन्धः संसर्गतया भासते विशेषणज्ञानं कारणं च भवति इति विज्ञेयम् ।
 
-
 

 
<
विशिष्टाद्वैतम्>
सूक्ष्म चिदचिदात्मकशरीरविशिष्टस्य कारणस्य परमात्मनः

स्थूलचिदचिदात्मकशरीरविशिष्टस्य कार्यस्य परमात्मनश्चैक्यम् । यथा

रामानुजमते विशिष्टाद्वैतम् । अत्र विशिष्टयोरद्वैतम् इति षष्ठीतत्पुरुषो

ज्ञेयः । द्वैतविशिष्टमद्वैतम् इत्यन्य आहुः । अत्र नियम्य नियामकभावेन

शरीरशरीरिभावो विज्ञेयः । तत्र चिदचिदात्मकं शरीरं नियम्यम् ।

तदन्तर्यामी परमात्मा तन्नियामकः । अत्र श्रुतिः यः पृथिव्यां तिष्ठन्

पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो

यमयति स त आत्मान्तर्याम्यमृतः ( शतप० बृह० १४/६/७/७ )

इत्यादिः । अत्रेदं विज्ञेयम् । रामानुजाचार्यस्य जन्म द्रविडदेशे भूतपुरीत्य-

परनाम्यां प्रेमधुलाख्यायां (पेरंबुदूर ) पुरि एकोनपञ्चाशदधिके सहस्रे

(शाके १०४९) वर्षे समजनि । तस्य पिता केशवभट्टः । माता कान्ति-

मती । मातुलो यादवप्रकाशः । स एव विद्यागुरुश्च इति । अत्र श्रूयते ।

शापवशाच्छूद्रजन्म प्राप्तेन शठकोपनाम्ना (नम्मालबार) द्रविडेन द्रविड-

भाषया वेदान्तप्रबन्धा विरचिताः । ततस्तान् प्रबन्धाननुरुध्य बोधाय-

नाख्यद्रविडब्राह्मणकृतां ब्रह्मसूत्रवृत्तिं च सहकृत्य गीर्वाणभाषया ब्रह्मसूत्रस्य

श्रीभाष्यमकार रामानुजाचार्येण । रामानुजमते चित् जीव: १ अचित्

जड: २ ईश्वरः नियन्ता परमात्मा ३ इति त्रयः पदार्थाः । ईश्वरो जगत

उपादानं निमित्तं च । सत्कार्यवादः । परिणामवादः । मोक्षदशायामपि

जीवब्रह्मणोर्भेदः पारमार्थिकः । तथापि परमभगवत्साम्यरूपमोक्षदशायां

जीवब्रह्मणोरानन्दतारतम्यं यथा मध्वमतेस्ति तथा नास्ति इति । तथापि