This page has not been fully proofread.

७८०
 
न्यायकोशः ।
 
द्वितीये रूपे स्पर्शो विशेषणम् । तथा च स्पर्शात्मक विशेषणस्य वायौ
सत्त्वेपि विशेष्यभूतस्य रूपस्याभावात् स्पर्शविशिष्टरूपस्याप्यभावो मन्तव्यः ।
तृतीये घटवे रूपं विशेषणम् । तथा च विशेषणस्य रूपस्य विशेष्यस्य
घटत्वस्य च वायावभावेन रूपविशिष्टघटत्वस्याप्यभावो मन्तव्यः ।
२ विशेषयुक्तः । यथा संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् (वै० २११/१८)
इत्यादावस्मद्विशिष्टा ईश्वरमहर्षयः ।
 
विशिष्ट विशेषणकज्ञानम् – १ विशेषणवद्विशेष्य धर्म
विषयक ज्ञानम् । यथा दण्डवान् पुरुषः इति ज्ञानम् । तद्विविधम्
विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहि विशेषणविशिष्ट प्रतियोगिक-
वैशिष्ट्यावगाहि चेति । तत्राद्ये विशेषणज्ञानासंसर्गाग्रहयोरेवापेक्षा न तु
विशेषतावच्छेदकप्रकारकधियोप्यपेक्षा ( ग० बाघ ० ) । द्वितीये तु
• शेषणम् तत्रापि विशेषणान्तरम् इति रीत्या जायमानं ज्ञानं भवति । यथा
विशेषणतावच्छेदकप्रकारकधियोपेक्षा । २ क्वचित् विशेष्ये यदि
 
दण्डवान् पुरुषः इति ज्ञानम् । अत्र ज्ञाने पुरुषांशे
 
दण्डत्वम् विशेषणतया भासते न तु दण्डत्वं पुरुषांशे विशेषणतावच्छे
क्वचित् एकत्र द्वयम् इति रीत्या जायमानं ज्ञानं भवति । यथा दण्डवान
दकतया भासते । अत्र विशृङ्खलोपस्थितिः प्रयोजिका इति विज्ञेयम् । ३
पुरुषः इति ज्ञानम् । अत्र ज्ञाने च एकस्यां व्यक्तौ ( पुरुषे ) पुरुषों
दण्डश्च एतदुभयं विशेषणतयैव भासते । न तु विशेषणविशेष्यतावच्छे-
दकभावेन इति । अत्र विशेषणत्वेनोभयोपस्थितिः प्रयोजिका इति बोध्यम् ।
४ कचित् विशिष्टवैशिष्ट्यावगाहि ज्ञानं भवति । अत्र ज्ञाने च
•षणतावच्छेदकप्रकारकं ज्ञानं कारणं भवति इति ध्येयम् । यथा दण्डवान्
• पुरुषः इति ज्ञानम् । अत्र च दण्डत्वात्मक विशेषणावच्छिन्न प्रतियोगिक
• वैशिष्ट्याख्यः संबन्धः संसर्गतया पुरुषांशे भासते । इदमेव ज्ञानं विशिष्ट
विशेषणकज्ञानप्रभेद: विशेषण विशिष्टप्रतियोगिक वैशिष्ट्यावाहि भवति
विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्या वगाहिज्ञानाद्भिद्यते च इति बोध्यम् ।
अत्रेदं बोध्यम् । विशिष्टवैशिष्ट्या वगाहिशब्दबोधे त्वयं भेदः / व्युत्पत्ति-
विशेष