This page has not been fully proofread.

न्यायकोशः ।
 
२९
 
द्विविधः । यथार्थः अयथार्थः । आद्यः तद्वति तत्प्रकारकानुभवः । स एव
प्रमेत्युच्यते । द्वितीयः तदभाववति तत्प्रकारकानुभवः । सोप्रमेत्युच्यते ।
यथार्थश्चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः । यथार्था-
नुभवकरणमपि चतुर्विधम् । प्रत्यक्षम् अनुमानम् उपमानम् शब्दः इति
( त० सं० ) (भा०प० ५३ ) । एवमेवायथार्थानुभवोपि चतुर्विध इति
तत्करणमपि चतुर्विधमिति च विज्ञेयम् । वैशेषिकमतेनुभवो द्विविधः ।
प्रमा अप्रमा चेति । तत्राप्रमारूपोनुभवो द्विविधः । भ्रमः संशयश्चेति
( त० कौ० ६ ) । २ विषयानुरूपा बुद्धिवृत्तिरनुभव इति पातञ्जला:
सांख्याः केचिद्वेदान्तिनश्चाहुः । विषयानुरूपत्वं च चित्तवृत्तेः वृत्तिसा-
रूप्यमितरत्र (पा० सू० ११४) इति पातञ्जलसूत्रे भिहितम् । तथा
हि । यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्त्राद्याकारेण परिणमते
एवमेवेन्द्रियादिप्रणाल्यान्तःकरणं बहिर्निःसृत्य विषयाकारेण परिणमते ।
तादृश परिणामरूपवृत्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य
विषयानुरूपभवन।दनुभवत्वम् । स्मृतौ तु विषयसंनिकर्षाभावात् न विषया-
कारताप्राप्तिरिति तद्भिन्ने ज्ञाने एवान्तःकरणस्यानुभवत्वम् ।
अनुभावः - १ अनुभववदस्यार्थोनुसंधेयः । २ कोषदण्डादिजातो राज्ञां
तेजोविशेष इति नीतिशास्त्रज्ञाः । ३ रसव्यञ्जको भ्रूभङ्गादिरित्यालंका-
रिकाः । तत्रोक्तम् - भावं मनोगतं साक्षात्स्वगतं व्यञ्जयन्ति ये । तेनुभावा
इति ख्याताः इति । उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भवं प्रकाशयन् । लोके
यः कार्यरूपः सोनुभावः काव्यनाट्ययोः ॥ इति च ( वाच० ) । ४
[ क ] सामर्थ्यमिति केचिदाहुः (वाच०)। [ख ] कर्मपुद्गलानां स्वकार्य-
करणे सामर्थ्यविशेषोनुभावः ( सर्व० सं० पृ० ७८ आईत० ) ।
अनुभूतिः–[क] अनुभववदस्यार्थोनुसंधेयः ( भा० प० ५२ ) । अनु-


भूतिः प्रत्यक्षात्मिकैवेति चार्वाका आहुः । अनुमितिरपीति काणादसौ-
गतौ । उपमितिरपीति केचिन्नैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभा-
कराः । अनुपलब्धिरपीति भट्टवेदान्तिनः । संभवरूपा ऐतिह्यरूपा
चापीति पौराणिका: ( दि० ११३ ) । चेष्टापीति तान्त्रिकाः ( सि०