2023-12-25 09:23:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७७५
 
<विरुद्धत्रिकद्वयम्>
उपादेयत्वम् विधेयत्वम् गुणत्वं चेत्येकं त्रिकम् । उद्दे-

इयत्वम् अनुवाद्यत्वम् मुख्यत्वं चेत्यपरं त्रिकम् ( जै० न्या० अ० १

पा० ४ अधि० ६ ) ।
 

 
<
विरुद्धत्वम् - >
१ ( हेतुदोषः) विपक्षमात्रस्पर्शित्वम् । साध्याभावव्याप्ति-
)

विरुद्धत्वम् इति परमार्थ: (त० भा० ) ( वाक्य० ) । व्याप्तिश्चात्र

अन्वयव्याप्तिः पूर्वपक्षीया साध्यवदवृत्तित्वरूपा ( साध्यासामानाधिकर-

(ण्यम् ) इति प्राञ्चो मणिकारादय आहुः । नव्या दीधितिकारादयस्तु

साध्याभावस्य व्याप्तिस्तु व्यतिरेकव्याप्तिः साध्यव्यापकाभावप्रतियोगित्व-

रूपा इत्याहु: ( नील० २ पृ० २५ ) ( दीघि० २ हेत्वाभा० पृ०

१९७ ) । अथ वा साध्यासामानाधिकरण्यादि । अत्रायमर्थः । साध्या-

समानाधिकरणत्वं च साध्यानधिकरणे हेतोर्वर्तमानत्वम् न तु साध्या-

धिकरणे हेतोरवर्तमानत्वम् । अतः न वह्निमानाकाशादित्यत्र स्वरूपा-

सिद्धेतिव्याप्तिः ( म० प्र० २ पृ० २६) इति । इदं विरुद्धत्वं च

मणिकृन्मताभिप्रायेणास्ति अन्वयव्याप्तिग्रहविरोधि च भवति इति विज्ञेयम्

( दीधि० २ पृ० १९७ ) ( न्या० म० २ पृ० २० ) । साध्यव्यापका-

भावप्रतियोगित्वम् । वृत्तिमतः साध्यवदवृत्तित्वम् । साध्यवद्वृत्तित्वानधिकर-

णत्वम् । साध्यासमानाधिकरणधर्मत्वम् । साध्यवद्वृत्तित्वानधिकरणधर्मत्वं

वा (चि० पृ० ९२-९३ ) । यथा गौरश्वत्वादित्यादौ ( न्या० म० ) ।

यथा वा हृदो वह्निमाञ्जलादित्यत्र जलस्य विरुद्धत्वम् । २ विरोधित्व-

शब्दवदस्यार्थो नुसंधेयः ( न्या० सि० दी० पृ० ५६ ) ।

विरोधः-१ इष्टार्थभङ्गः ( निग्रहस्थानम् ) ( त० मा० पृ० ५१ ) ।

२ कचित् तद्वत्ताग्रहप्रतिबन्धकज्ञान विषयत्वम् ( ग० सत्प्र० ) । यथा

हृदे वह्निमत्ताग्रहप्रतिबन्धकनिश्चयविषयस्य वहयभाववद्धदस्य हृदो वह्नि -

मान् इत्यनेन सह विरोधः । ३ विरुद्धवम् ( त० भा० ) ( वाक्य ० ) ।

४ विरोधित्वम् ( दीधि० २) (ग० बाघ० ) । ५ परस्पराभाव-

व्याप्यत्वाविशेषितयोः परस्परज्ञान प्रतिबन्धकी भूतज्ञानविषयत्वम् । अयं च

स्वरूपतो विरोधः इत्युच्यते ( ग० सव्य० ) । यथा घटघटाभावयो-
FO