2023-12-25 09:22:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७७४
 
न्यायकोशः ।
 

लक्षणं संपद्यते । [ङ] साध्यासमानाधिकरणसाध्या भावव्याप्यः ।

साध्यवदन्योन्याभावव्याप्तो वा ( चि० २ हेत्वाभा० पृ० ९० ) ( न्या०

म० २ पृ० २० - २१ ) । यथा शब्दो नित्यः कार्यत्वादित्यादौ कार्य-

वादिर्हेतुर्विरुद्धः ( त० भा० ) ( भा० प० ) (मु० ) (३०

वि० ३।१।१५) ( त० सं० ) ( वाक्य० ) । यथा वा गौरश्वत्वा-

दित्यादावश्वत्वं विरुद्धम् ( न्या० म० २ पृ० २१ ) । अत्र साध्या-

भावत्वं साध्यविरोधित्वमात्रं भावाभावसाधारणम् । तेन अभावे साध्ये

अभावाभावस्य भावत्वेपि नाव्याप्तिः ( चि० २ हेत्वा० पृ० ९० ) /

वदवृत्तिमत्त्वम् इति प्राञ्चः मणिकारादयः आहुः । इदमेव साध्यासमाना-

साध्याभावव्याप्तिश्च साध्याभावस्य पूर्वपक्षीयान्वयव्याप्तिः । सा तु साध्य-

धिकरण्यरूपं विरुद्धत्वम् । दीधितिकारादयो नव्यास्तु साध्याभावस्य

व्यतिरेक व्याप्तिः । सा तु प्रकृतहेतुनिष्ठं साध्यव्यापकाभावप्रतियोगित्वम्

इति वदन्ति । इदं च प्राचीनमते असाधारण्यमेव इति ज्ञेयम् । तथा च

प्राचीनमणिकृन्मते साध्यवदवृत्तित्वस्य विरुद्धत्वरूपत्वेपि असाधारण्य

निश्चितसाध्यवदवृत्तित्वरूपतया तयोर्नाभेदः । नवीनदीधितिकारमते तु

साध्याभावनिरूपिताया व्यतिरेकव्याप्तेः ( साध्यव्यापकीभूताभाव प्रतियोगि

त्वस्य ) विरुद्धत्वरूपत्वेपि साध्यवदवृत्तित्वस्यासाधारण्यतया नासाधारण्य-

विरुद्धत्वयोरभेदः इति विवेको द्रष्टव्यः ( नील० २ पृ० २५ )/

सत्प्रतिपक्षस्तु साध्याभावव्याप्यं हेत्वन्तरमेव इति तु सर्वेषां नैयायिक

सिद्धान्तः इति सूक्ष्मतरमेतत् । स चायं विरुद्धः विधिसाधने त्रिविधः

(१) साक्षात्साध्याभावव्याप्यत्वात् (२) साध्यव्यापकाभावव्याप्यत्वात्

(३) साध्यव्यापकविरुद्धोपलम्भाच्च । यथा (१) अधूमवानयं योग्य

धूमवत्तया अनुपलभ्यमानत्वात् ( २ ) निरनिकत्वात् ( ३ ) जलाशयत्वात्

इति । निषेधसाधनेपि त्रिविधः (१) प्रतियोग्युपलम्भात् (२) साध्य

व्यापकाभावोपलम्भात् (३) साध्यव्यापकविरुद्धोपलम्भाच / यथा

( १ ) निरग्निकोयमग्निमत्त्वात् (२) धूमाभावशून्यत्वात् (३) धूमववाद
 

( चि० २ पृ० ९४ ) इति ।