न्यायकोशः /825
This page has been fully proofread once and needs a second look.
७७१
सामान्यधर्मसाक्षाद्व्याप्यो धर्मः (मू० म० ) । यथा
प्रमात्वं च । यथा वा द्रव्यविभाजकोपाधिः
ज्ञान विभाजकोपाधिर्भ्रमत्वं
<विभु
अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्या-
मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८९ शै० ) ।
<विभुत्वम्
१ [क] सर्वंगतत्वम् ( गौ० दृ० ४/२/२ ० ) । [ख]
परममहत्परिमाणवत्त्वम् ( ० १ ) । [ग] मूर्तेतरद्रव्यत्वम् ( त०
प्र० १ ) । [घ ] सर्वमूर्तद्रव्यसंयोगित्वम् । यथा आकाशस्य विभुत्वम्
( त० दी० १ पृ० १०) (वाक्य० १ पृ० ५ ) ( न्या० बो० १
पृ० ३ ) । विभवश्चत्वारः आकाशः कालः दिक् आत्मा चेति ( भा०
प० श्लो० २६) । अत्रेदं बोध्यम् विभुकार्ये स्वासमवायिकारणा-
वच्छिन्नदेशे उत्पद्यते (३० उ० ३।२।१ ) इति । विभुद्वयसंयोगश्च
सिद्धान्ते नाङ्गीक्रियते । अन्यथा सुषुप्तिर्न प्राप्नुयात् । २ ईशत्वादिगुण-
विशिष्टत्वम् इति वेदान्तिप्रभृतय आहुः ।
<विभुविशेषगुणत्वम्
अकारणगुणोत्पन्नगुणत्वम् ( भा० प० गु०
1
विमतम् -
<विमतम्>
१ वादिप्रतिवादिनोर्विवादविषयीभूतम् । यथा विमतम् जगत्
मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरजतवत् इत्यादौ । अत्र
मायावादिमतसिद्धानुमाने जगतः सत्यत्वमिथ्यात्वाभ्यां विवादः ( विप्रति-
पत्तिः ) । २ विरुद्धमतियुक्तम् । यथा विमतम् (मायावादिमतम् )
अनारम्भणीयम् अन्यथाप्रतिपादकत्वात् बौद्धादिशास्त्रवत् इत्यादौ (माया..
वादख० ) । ३ संदिग्धम् ।
<विमर्श:
१ विरोधविषयकं ज्ञानम् । यथा विमर्श: संशयः (गौ० १ । १ । २३)
●
इत्यादौ । २ विचार इति काव्यज्ञा वदन्ति । ३ वितर्कः ( हेमच ० ) ।
४ नाटकाङ्गसंधिविशेषः इति नाटकलक्षणज्ञा आहुः । तदुक्तम् यत्र
मुख्यफलोपाय उद्भिन्नो गर्भतोधिकः । शापाद्यैः सान्तरायश्च स विमर्श