2023-12-25 09:15:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
विभागः शब्दस्य विभागस्य च हेतुर्भवति ( प्रशस्त० गु० पृ० ३२
)

इति । तत्र विभागः शब्दस्य हेतुर्यथा वंशे पाठ्यमाने यः चटचटाशब्दः

स विभागजन्यः । तत्र वंशदलद्वयाकाशविभाग: असमवायिकारणम्

वंशदलद्वयविभागो निमित्तकारणम् इति विज्ञेयम् ( त० कौ० गु०

पृ० १९) । विभागस्य विभागहेतुत्वं तु समनन्तरमेवोक्तम् । अ

विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात् उत्तरसंयोगावधिसद्भावात् ।

तथा हि यदा द्वितन्तुककारणावयवेंशौ कर्मोत्पन्नमंश्वन्तराद्विभागमारभते

कचित् आश्रयविनाशादेव विनश्यति ( प्रशस्त० गु० पृ० ३४ ) /

तदैव तन्त्वन्तरेपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसंयोग विनाशः

तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ततो यस्मिन्नेव

काले विभागात्तन्तुसंयोगविनाशः तस्मिन्नेव काले संयोगविनाशात्तन्तु

विनाशः । तस्मिन्विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः

( प्रशस्त० गु० पृ० १९) इति । अन्यत्र चैवमुक्तम् । विभागश्च क्षणत्र-

यावस्थायी भवति । स च कचित् उत्तरदेशसंयोगात् कचिदाश्रयनाशात्

कचिदुभाभ्यां च नश्यति ( त० व० २०७) ( त० दी० ) (सि०

च० ) ( प्रशस्त० पृ० १८) इति । २ विभजनम् (वाक्य०

पृ० २ ) । ३ [ क ] व्यवहारशास्त्रज्ञास्तु द्रव्यसमुदायविषयाणामनेक

टी० पृ० ६१ ) । यथा विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ।

खाम्यानां तत्तदेकदेशे व्यवस्थापनम् ( मिताक्षरा अ० २ श्लो० ११६

ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ( याज्ञ० अ० २

श्लो० ११७) इत्यादौ ( वीरमित्रो० अ० २ पृ० ५२२) इत्याहुः ।

ततोधे मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥ ( मनु० अ० ९ श्लो० ११२)

श्रेष्ठादिविभागश्च मनुनोक्तः ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।

( आपस्त-सू० २१६ । १४ ।७) इति । [ख अन्ये व्यवहारशास्त्रज्ञास्तु

विशेष इत्याहुः ( वाच० ) । ४ कार्यकारणयोगविधिदुःखान्तानां य

पूर्वस्वामिस्वत्वनाशोत्तरं तत्संबन्धाधीनत्वेन जातस्वत्वस्य व्यञ्जको व्यापार-

संभव लक्षणतः असंकरेणाभिधानं विभागः ( सर्व० सं० पृ० १७१
 

नकुली० ) ।
 
७७०
 
यथा-