This page has not been fully proofread.

न्यायकोशः ।
 
७६९
 
कर्मजो द्विविधः अन्यतरकर्मजः द्विकर्मजश्च । तत्राद्यः श्येनशैलयोर्विभागः ।
द्वितीयो मेषयोर्विभागः । विभागजोपि द्विधा कारणमात्र विभागजन्यः
कारणाकारणविभागजन्यश्च । तत्रादिमो यथा कपालद्वयविभागात्कपाल-
पूर्वदेशविभागः । द्वितीयस्तु यथा हस्तपुस्तक विभागात्कायपुस्तकविभागः
( भा० प० गु० श्लो० १२० - १२१) इति । अत्र द्वितीय विभागे
कायकारणस्य हस्तस्य तदकारणस्य पुस्तकस्य च विभागेन हस्तकार्यस्य
कायस्य तदकार्यस्य पुस्तकस्य च विभागः इति ज्ञेयम् ( त० व० ) ।
अत्रेदमाकूतम् । यदा हस्ते कर्मोत्पन्नमवयवान्तराद्विभागमकुर्वदाकाशा-
दिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणा-
कारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्या-
कार्यविभागानारभन्ते । तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्य-
संयोगान् आरभन्ते यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः कार-
णसंयोगानन्तरं कार्यसंयोगोत्पत्तिः ( सर्व० पृ० २२८ औलू० )
 
( प्रशस्त० गु० पृ० ३३ ) इति । अन्यत्र चैवमुक्तम् । यत्र हस्तक्रियया
हस्ततरुविभागः तेन शरीरतरुविभागो जायते । तत्र च शरीरतरुविभागे
हस्तक्रिया न कारणम् । व्यधिकरणत्वात् । शरीरे तु तदा क्रिया नास्ति ।
अवयव क्रियाया यावदवयवक्रियानियतत्वात् । अतस्तत्र कारणाकारण-
विभागेन कार्याकार्यविभागो जन्यते इति । अत एवं विभागो गुणान्तरम् ।
अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् ( वै० वि० ७१२।१०) (मु०
गु० पृ० २०८) इति । अत्रेदं बोध्यम् । कार्याविष्टे ( कार्यव्याप्ते )
कारणे कर्मोत्पन्नं यदा तस्यावयवान्तराद्विभागं करोति न तदा आका-
शादिदेशात् । यदा त्वाकाशादिदेशाद्विभागं करोति न तदा अवयवान्त-
रात् इति स्थितिः (सर्व० पृ० २२६ औलू०) (त० व० पृ० २२४ )
( प्रशस्त ० गु० पृ० ३२ ) । तथा च प्रथमं यत्रैककपाले कर्म ततः
• कपालद्वयविभागः ततो घटारम्भकसंयोगनाशः ततो घटनाशः ततस्तेनैव
कपालद्वयविभागेन सकर्मणः कपालस्याकाशादिना विभागो जायते ततः
कपालाकाशादिसंयोगनाशः तत उत्तरदेशसंयोगः ततः कर्मनाशः
( मु० गु० पृ० २०७) (३० वि० ७।२।१०) इति । अत्र भाष्यम्
 
९७ न्या० को०