2023-12-25 09:14:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७६८
 
न्यायकोशः ।
 
वाच्यमिति । शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपः तयोः पद-

संज्ञार्थमिति ( वात्स्या० २।२।५७ ) ।
 
-
 

 
<
विभजनम्>
[ क ] सामान्यधर्मावान्तरधर्मपुरस्कारेण धर्मिंप्रतिपादनम्

( ग० २ सव्य० ) । [ख ] सामान्यधर्मस्य साक्षान्यूनवृत्तियावद्धर्म-

प्रकारकज्ञानानुकूलो व्यापार ( वाक्य० १ पृ० २) । स्वसमभिव्या

हृतपदार्थतावच्छेदकसाक्षाद्व्याप्यपरस्परविरुद्धधर्मप्रकारकज्ञानानुकूलशब्द

प्रयोगः इत्यर्थः । यथा द्रव्यं विभजते इति प्रतिज्ञाय कृतं पृथिव्यापस्तेजो

वायुराकाशम् इत्यादिविभजनम् । [ग] सामान्यधर्मयुतानां बहूनां पर-

स्परविरुद्धतद्व्याप्यधर्मप्रकारेण प्रतिपादनम् ( श्रीकृष्णः ) ( वाच० ) ।

विभवः– ९ विभुत्वम् (वै० उ० ७११।२२) । यथा विभवान्महाना-

काशस्तथा चात्मा ( वै० ७ । १ । २२ ) इत्यादौ । २ रामाद्यवतारो विभवः

इति रामानुजीया वदन्ति ( सर्वे० पृ० ११५ रामा० ) । ३ संवत्सर-

विशेष: इति मौहूर्तिका वदन्ति । ४ मोक्षः इति वेदान्तिन आहुः ।
 

५ ऐश्वर्यम् इति काव्यज्ञा आहुः ।
 

 
<
विभाग:->
१ ( गुणः ) [ ] संयोगनाशको गुणः । स च सर्वद्रव्य-

वृत्तिः अव्याप्यवृत्तिश्च ( नील० ) ( त० सं० ) । प्रतियोगितासंबन्धान
 

वच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकतावान् इत्यर्थः इति केचिदाहुः ।
 

तेन संयोगस्यापि स्वनाशं प्रति प्रतियोगिविधया कारणत्वेपि संयोगे

नातिव्याप्तिः इति विज्ञेयम् । परे तु संयोगनाशत्वावच्छिन्ननिरूपित

समवायावच्छिन्नकारणतावान् इत्यर्थः इत्याहु: ( नील० १ पृ० १४) ।

अयमस्माद्विभजते इति प्रत्यक्षसिद्धोयं विभागगुणः । अतः संयोगनाश

नान्यथासिद्धः इति ज्ञेयम् (वै० वि० ७ । २ । १० पृ० ३३२) । अत्राधिक

च एतेन विभागो व्याख्यातः (वै० ७।२।१०) इति सूत्रोपस्कारे दृश्यम् ।

ख विभक्तव्यवहारासाधारणकारणम् ( मु० गु० पृ०

( प्र० प्र० ) । [ग] विभक्तप्रत्ययनिमित्तम् । स च प्राप्तिपूर्व

अप्राप्ति: ( प्रशस्त • गु० पृ० ३२ ) । [घ ] विभागत्वसामान्यवान्

( त० कौ० ) । स द्विविधः कर्मजः विभागजश्च ( त० दी० ) । तत्र
 
-
 
२०७१।