This page has not been fully proofread.

न्यायकोशः ।
 
७६७
 
विप्रतिषेधः । तत्रापि तथैवानैकान्तिकत्वम् तत्समानदोषोद्भावनं वा
चतुर्थ: पक्षः ( गौ० वृ० ५ । १ । ४१ ) इति । २ शाब्दिकास्तु द्वयोः
शास्त्रयोः क्वचिल्लुब्धावकाशयोरेकत्र प्रयोगे युगपदसंभविस्वकार्य समर्पणम् ।
यथा विप्रतिषेधे परं कार्यम् ( पा० सू० १ । ४ । २ ) इत्यादौ इति वदन्ति ।
तथा हि । वृक्षेभ्य इत्यत्र सुपि च ( पा० सू० ७ । ३ । १०२ ) इत्यनेन
दीर्घः प्राप्तः । बहुवचने झल्येत् ( पा० सू० ७ । ३ । १०३ ) इत्यनेन
च एत्वमपि प्राप्तम् । उभयप्राप्तौ परत्वाद्विप्रतिषेधेनैत्वमेव भवति
(काशिका १ । ४ । २) इति ।
 
विभक्तिः–१ विभागः । अत्रोदाह्रियते अविभक्तं स्थावरं यत्सर्वेषामेव
तद्भवेत् । विभक्तं स्थावरं ग्राह्यं नान्योदर्यैः कथंचन ॥ ( यम० ) इति ।
२ पदवृत्तिः ( गौ० वृ० २ । २ । ५७ ) । यथा ते विभत्तयन्ताः पदम्
(गौ० २१२१५७ ) इत्यादौ विभक्तिशब्दार्थः । ३ (प्रत्ययः ) [ क ]
संख्यात्वा वान्तरजात्य वच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । यथा
घटोस्तीत्यत्र घटपदोत्तरवर्तिनी सु इति विभक्तिः । एकत्वत्वाद्य वच्छिन्न-
शक्तिमानपि तदादिर्न प्रत्ययः इति प्रत्ययश्च तृजादिर्न संख्याशक्तः इति
च तदादे: तृजादेव व्युदासः ( श० प्र० श्लो० ६० टी० पृ० ७२ ) ।
[ ख ] यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेयकान्वयबोधं प्रति समर्थः
सवा विभक्तिरित्युच्यते । यथा घटम् घट इत्यादौ । इयं विभक्ति-
र्द्विविधा सुप् तिङ् चेति । अत्र सुपा ( अमा) कर्मत्वं घटीयम् इत्यादि-
रिव पचतीत्यादौ तिङापि कृतिः पाकीया इत्यादिरुद्देश्यविधेयभावेन स्वार्थे
प्रकृत्यर्थस्य धीरुत्पाद्यते इति लक्षणसमन्वयो बोध्यः । घट इत्यत्र प्रथमा-
प्यभेदादौ स्वार्थे प्रकृत्यर्थस्य विधेयभावेन धियं जनयत्येव इति लक्षण-
समन्वयो बोध्य: । लक्षणान्तरग्रहणे आवश्यकत्वमाह यद्याख्यातमात्रस्य
तदेकवचनस्य वा न संख्याशक्तत्वे प्रमाणम् तदेदं लक्षणान्तरम् इत्यव
धेयम् ( श० प्र० श्लो० ६१ टी० पृ० ७३) । विभक्तिर्द्वयी नामिकी
आख्यातिकी च । तत्र नामिकी सुप् । आख्यातिकी तिङ् । ब्राह्मणः
पचतीत्युदाहरणम् । उपसर्गनिपातास्तर्हि न पदसंज्ञाः । लक्षणान्तरं