This page has not been fully proofread.

न्यायकोशः ।
 
संभवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तत्त्वानवधारणं
संशयः (वात्स्या० १ । १ । २३ ) इति । [ख वेदान्तिनस्तु विरुद्धार्थक
वाक्यद्वयजन्यप्रतीतिद्वयम् इत्याहुः ( प्र०प० टी० वेदेशतीर्थी० पृ० ८ ) ।
[ग] विरुद्धकोटिद्वयोपस्थापकः शब्दः ( गौ० वृ० ११ १/२३ )
( दि० गु० ) । स च विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वहि-
मान् न वा इति संशयापादकः । [घ ] विरुद्धार्थप्रतिपादकवाक्यद्वयम्
( नील० ४ पृ० ३४ ) । यथा पर्वतो वह्निमान् न वा इति वाक्य-
द्वयम् । तथा हि । वादिना पर्वतो वह्निमान् इति प्रतिवादिना च पर्वतो
बह्वथभाववान् इति प्रतिज्ञाते मध्यस्थस्य पर्वतो वह्निमान् न वा
संशय उत्पद्यते । अतस्तस्य संशयाधायकत्वात्तथात्वम् । २ [क]
विपरीता वा कुत्सिता वा प्रतिपत्तिः विप्रतिपत्तिः । विप्रतिपद्यमानः
पराजयं प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः (वात्स्या० १२/२/१९) /
[ख] विरुद्धा प्रतिपत्तिः ( गौ० वृ० १ २११९ ) ( दि० गु० ) ।
अत्रोदाहियते परस्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु ( स्मृतिः ) इति ।
इयं तु निग्रहस्थानोन्नेया इति विज्ञेयम् । ३ विरोधः । ४ ऊह:
 
याज्ञिका आहुः ( काव्या० श्रौ० ) ।
 
विप्रतिषेधः -- १ तुल्यबलविरोधः । यथा प्रतिषेधविप्रतिषेधे प्रतिषेधवदोषः
( गौ० ५ । १ । ४१ ) इत्यादौ । अत्र भाष्यम् । योयं प्रतिषेधेपि समानो दोषो-
नैकान्तिकत्वमापद्यते सोयं प्रतिषेधस्य प्रतिषेधेपि समानः । तत्र अनित्यः
शब्दः प्रयत्नानन्तरीयकत्वात् इति साधनवादिनः स्थापना प्रथमः पक्षः ।
प्रयत्नकार्यानेकत्वात्कार्यसमः इति दूषणवादिनः प्रतिषेधा
पक्षः । स च प्रतिषेध इत्युच्यते । तस्यास्य प्रतिषेधस्य प्रतिषेधेपि समानो
दोषः इति तृतीयः पक्षः विप्रतिषेध इत्युच्यते । तस्मिन् प्रतिषेधविप्रति
षेधेपि समानो दोषोनैकान्तिकत्वम् चतुर्थः पक्षः (वात्स्या० ५/१/४१)/
अत्र वृत्तिः । शब्दः अनित्यः प्रयत्नानन्तरीयकत्वात् इति स्थापनावादिनः
प्रथमः पक्षः । प्रयत्नकार्यानेकत्वात्कार्यसमः इति प्रतिवादिनो द्वितीयः
पक्षः । प्रतिषेधप्रतिषेधेष्यनैकान्तिकत्वं तुल्यम् इति वादिनस्तृतीयः पक्षो
 
७६६
 
इति
 
द्वितीयः