2023-12-02 13:37:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७६५
 
( ४ ) न सत् नासत् न सदसत् किं तु अनिर्वचनीयमेव इति माया-

वादिनो मन्यन्ते । (५) श्रीमदानन्दतीर्थाचार्यास्तु असदेव रजतं प्रत्य-

भात् इत्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना द्रष्टुर्दोषवशात्

प्रतिभाति इति प्राडुः (प्र०प० पृ० ४ ) । [ग] पातञ्जलास्तु पञ्च-

विधवृत्त्यन्तर्गतो वृत्तिविशेष इत्याहुः (पात० सू० पा० १ सू० ६, ८) ।

२ संशयः । ३ विपरीतम् । यथा विपर्ययोभूत्सकलं जलौकसः ( भाग ०

स्क० ८ अ० २ श्लो० २९ ) इत्यादौ ।
 
-
 
-
 

 
<
विपाकः>
१ अन्यथाभूतस्यान्यरूपेण परिणामः (बाच ० ) । २ विपाकाः

कर्मफलानि जात्यायुर्भोंगाः ( सर्व० सं० पृ० ३६५ पात० ) ।

 
<
विप्रः>
१ विद्वान् ब्राह्मणः । अत्रोक्तम् जन्मना ब्राह्मणो ज्ञेयः संस्कारै-

द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ ( प्रा०

वि० ) ( वाच० ) इति । यथा विप्राय वेदविदुषे श्रोत्रियाय कुटुम्बिने ।

नरकोत्तारणार्थाय अच्युतः प्रीयतामिति ॥ ( वायनमन्त्रः ) इत्यादौ विप्रः ।

२ अश्वत्थवृक्षः ( राजनि० ) ।
 

 
<
विप्रकर्ष:- >
[क] संयुक्तसंयोगभूयस्त्वम् ( दूरत्वम् ) (वै० उ०

७।२।२१)। [ख] बहुतरसंयोगान्तरितत्वम् ( दि० गु० पृ० २०८ ) ।

यथा मुम्बापुर्याः पुण्यग्राममपेक्ष्य झळकीग्रामस्य विप्रकर्षः । अयं दिकृतो

विप्रकर्षः इति विज्ञेयम् । विप्रकर्षो द्विविधः दिकृतः कालकृतश्च ।

विप्रकर्षज्ञानं परत्वे निमित्तकारणं भवति । कालकृतविप्रकर्षश्च तद -

पेक्षया बहुतरतपन परिस्पन्दान्तरितजन्मत्वम् (३० उ० ७७२।२१) ।

तदर्थश्च तज्जन्मक्षणवृत्तिध्वंसप्रतियोगिस्पन्दवृत्तित्वे सति जन्मवत्वम् इति

( प० मा० ) । यथा गौतमर्पेरुदयनाचार्यमपेक्ष्य गङ्गेशोपाध्यायगदाधर-

भट्टाचार्ययोर्विप्रकर्षः । शिष्टं च परत्वशब्दव्याख्याने दृश्यम् ।

 
<
विप्रकृष्टत्वम् - >
[क] विप्रकर्षः । [ख] दूरस्थत्वम् इत्येकदेशिन आहुः ।

 
<
विप्रतिपत्तिः->
१ [क] व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । इदं च

संशयप्रयोजकम् । तथा हि अत्र व्याघातो विरोधोसहभाव इति । अस्त्यात्मा

इत्येकं दर्शनम् । नास्त्यात्मा इत्यपरम् । न च सद्भावासद्भावौ सबैकत्र