This page has not been fully proofread.

न्यायकोशः ।
 
७६५
 
( ४ ) न सत् नासत् न सदसत् किं तु अनिर्वचनीयमेव इति माया-
वादिनो मन्यन्ते । (५) श्रीमदानन्दतीर्थाचार्यास्तु असदेव रजतं प्रत्य-
भात् इत्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना द्रष्टुर्दोषवशात्
प्रतिभाति इति प्राडुः (प्र०प० पृ० ४ ) । [ग] पातञ्जलास्तु पञ्च-
विधवृत्त्यन्तर्गतो वृत्तिविशेष इत्याहुः (पात० सू० पा० १ सू० ६, ८) ।
२ संशयः । ३ विपरीतम् । यथा विपर्ययोभूत्सकलं जलौकसः ( भाग ०
स्क० ८ अ० २ श्लो० २९ ) इत्यादौ ।
 
-
 
-
 
विपाकः – १ अन्यथाभूतस्यान्यरूपेण परिणामः (बाच ० ) । २ विपाकाः
कर्मफलानि जात्यायुर्भोंगाः ( सर्व० सं० पृ० ३६५ पात० ) ।
विप्रः – १ विद्वान् ब्राह्मणः । अत्रोक्तम् जन्मना ब्राह्मणो ज्ञेयः संस्कारै-
द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ ( प्रा०
वि० ) ( वाच० ) इति । यथा विप्राय वेदविदुषे श्रोत्रियाय कुटुम्बिने ।
नरकोत्तारणार्थाय अच्युतः प्रीयतामिति ॥ ( वायनमन्त्रः ) इत्यादौ विप्रः ।
२ अश्वत्थवृक्षः ( राजनि० ) ।
 
विप्रकर्ष:- [क] संयुक्तसंयोगभूयस्त्वम् ( दूरत्वम् ) (वै० उ०
७।२।२१)। [ख] बहुतरसंयोगान्तरितत्वम् ( दि० गु० पृ० २०८ ) ।
यथा मुम्बापुर्याः पुण्यग्राममपेक्ष्य झळकीग्रामस्य विप्रकर्षः । अयं दिकृतो
विप्रकर्षः इति विज्ञेयम् । विप्रकर्षो द्विविधः दिकृतः कालकृतश्च ।
विप्रकर्षज्ञानं परत्वे निमित्तकारणं भवति । कालकृतविप्रकर्षश्च तद -
पेक्षया बहुतरतपन परिस्पन्दान्तरितजन्मत्वम् (३० उ० ७७२।२१) ।
तदर्थश्च तज्जन्मक्षणवृत्तिध्वंसप्रतियोगिस्पन्दवृत्तित्वे सति जन्मवत्वम् इति
( प० मा० ) । यथा गौतमर्पेरुदयनाचार्यमपेक्ष्य गङ्गेशोपाध्यायगदाधर-
• भट्टाचार्ययोर्विप्रकर्षः । शिष्टं च परत्वशब्दव्याख्याने दृश्यम् ।
विप्रकृष्टत्वम् - [क] विप्रकर्षः । [ख] दूरस्थत्वम् इत्येकदेशिन आहुः ।
विप्रतिपत्तिः-१ [क] व्याहतमेकार्थदर्शनं विप्रतिपत्तिः । इदं च
संशयप्रयोजकम् । तथा हि अत्र व्याघातो विरोधोसहभाव इति । अस्त्यात्मा
इत्येकं दर्शनम् । नास्त्यात्मा इत्यपरम् । न च सद्भावासद्भावौ सबैकत्र