2023-12-02 13:36:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
करणत्वेनेन्द्रियं भावयेत् इति वाक्यार्थः । तच्च दधिकरणत्वम् किंनिष्ठम्

इत्याकाङ्क्षायां संनिधिप्राप्तहोम आश्रयत्वेनान्वेति (लौ० भा० पृ० १६) ।

[ग] अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधिः ( मी० न्या०

(पृ० १२ ) । विनियोगविधेः सहकारिभूतानि षट् प्रमाणानि सन्ति

श्रुतिः लिङ्गम् वाक्यम् प्रकरणम् स्थानम् समाख्या इति ( लौ० भा०

पृ० १६-२९ ) । एतत्सहकतेनानेन विधिना अङ्गत्वं परोद्देशप्रवृत्तकृति-

साध्यत्वरूपपारार्थ्यापरपर्यायं ज्ञाप्यते ।
 
-
 

 
<
विपक्षः - >
१ [ क ] निश्चितसाध्याभाववान् । यथा पर्वते वह्निसाधने

हृदो विपक्षः (त० सं० २) । विपक्षत्वं च साध्याभावप्रकारक

निश्चय विशेष्यत्वम् ( न्या० बो० २) अथ वा विशेष्यतासंबन्धेन

साध्याभावप्रकारकनिश्चयवत्वम् ( वाक्य० २) इति ज्ञेयम् । [ख]

वेदान्तिनस्तु साध्यतत्समानधर्मरहितो धर्मी इत्याहुः (प्र० च० पृ० २४ ) ।

२ प्रतिकूलपक्षः इति व्यवहारज्ञा आहुः । ३ शत्रुः इति काव्यज्ञा
 

आहुः (अमरः ) ।
 

 
<
विपरीतज्ञानम्>
१ संशयः (नील० ) । २ भ्रमः ।
 

 
<
विपर्ययः>
१ ( अप्रमा ) [ क ] मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः

( गौ० वृ० ४।१।३ ) । अत्र अयथार्थज्ञानमेव नास्ति इति प्राभाकरा-

दय आहुः ( प्र० प० पृ० ४ ) । [ख वेदान्तिनस्तु विपरीत निश्चयः

( प्र० प० पृ० ४ ) । अत्र विपरीतत्वं च पुरोवर्तिन्यविद्यमानप्रकारक

त्वम् ( प्र० प० टी० वेदेशतीर्थी० पृ० १० ) । विपरीतनिश्चयव

इदं रजतम् इत्यादि । अनुमानाभासजो यथा धूलीपटले धूमभ्रमाद्वय

प्रत्यक्षानुमानागमाभासेभ्यो जायते । तत्र प्रत्यक्षाभासजो यथा शुक्तिका

भाववति वह्नयनुमिति: । आगमाभासजो यथा नदीतीरे पञ्च फलानि

सन्ति इति प्रतारकवाक्यजन्यज्ञानम् इत्याहुः ( प्र० च० पू०

सदेव इति वैशेषिकादय आहुः । (२) ज्ञानस्वरूपमेव इति विज्ञान-

अत्र प्रत्यक्षाभासविषये विप्रतिपत्तिः । (१) प्रतीतं रजतं देशान्तरे

वादिन आहुः । (३) तत्रैव तात्कालिकमुत्पन्नं सत् इति भास्कर आह
 
७६४
 
3
 
6
 
८-९)/