2023-12-02 13:32:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७५९
 
W
 
कुमार्याः पुंयोगे मानम् इति ( कि० व० ) (मु० ) ( म०प्र० ४ )

( त० कौ० ) । अथ वा वच्छिाविषयत्वम् । यथा घटमानय इत्यादौ

लोडर्थो विधि: ( तर्का० ४ पृ० ११) ( श० प्र० श्लो० १०१

टी० पृ० १४६ ) । अत्र घटकर्मकमदिच्छा विषयानयनानुकूलकृति-

मांस्त्वम् इत्यन्वयबोधः । अत्रेदं बोध्यम् । यजेत स्वर्गकामः न कलजं

भक्षयेत् इत्यादौ यागः स्वर्गकाम कर्तव्यत्वेनाप्ताभिप्रायविषयः कलञ्ज-

भक्षणं कर्तव्यत्वेनाप्ताभिप्रायविषयो न इति वाक्यद्वयार्थबोध: । यागादौ

चाप्ताभिप्रायविषयत्वेनेष्टसाधनत्वादिकमनुमाय प्रवृत्तिः । कलञ्जभक्षणादौ

तद्विषयत्वाभावेनानिष्टसाधनत्वमनुमाय निवृत्तिः इति ( म० प्र० ४

पृ० ५९ ) । भट्टमीमांसकास्तु विधिप्रेरणाप्रवर्तनादिशब्दाभिधेयः प्रवृत्य-

नुकूलव्यापार इत्याहुः । तन्मते त्वित्थम् । गामानय इत्याचार्यवाक्यश्रवणा-

नन्तरं शिष्यप्रवृत्तिदर्शनात् शब्दप्रवृत्तौ प्रवर्तनाज्ञानं हेतुः । सा च

प्रवर्तना पचेत इत्यादिलौकिकवाक्ये पुरुषनिष्ठोभिप्राय विशेषः । यजेत

स्वर्गकामः इत्यादिवैदिकवाक्ये तु पुरुषाभावाच्छन्दनिष्ठैव । न चेश्वर-

कर्तृकत्वं वेदस्य । ईश्वरस्यैवानभ्युपगमात् । शब्दनिष्ठत्वादेव च शब्द-

भावना इत्युच्यते । सैव विध्यर्थः । स च लिड्वेनाभिधीयते । अर्थ -

भावना तु प्रवृत्त्यादिव्यापाररूपा । सा चाख्यातत्वेनोपस्थाप्यते इति ।

तत्रोक्तम् अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या

सर्वाख्यातस्य गोचरः ॥ ( म० प्र० ४ पृ० ५८) इति । अयमाशयः ।

खर्गकामो यजेत इत्यादौ लिङादिप्रत्यये अंशद्वयमस्ति लिङ्वम् आख्या-

तत्वं च । तत्र लिङ्वांशेन प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो बोध्यते ।

ईश्वरानभ्युपगमात् । अयं शब्दभावना इत्युच्यते । तेन व्यापारेण च

प्रवृत्त्याख्यो यागकर्तृपुरुषनिष्ठो व्यापार आख्यतत्वांन

उपस्थाप्यते । अयमेव अर्थभावना इत्युच्यते । एवं च पुरुषनिष्ठायाः

प्रवृत्तेरनुकूलः प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो विध्यर्थः इति ( लौ०

मा० ५० ५-१०)। प्राभाकरास्तु विध्यर्थः कार्यत्वमात्रम् । तच्च

कृतिसाध्यत्वम् । तथा हि । यद्विषयिणी बुद्धिः प्रवृत्तिजननीमिच्छां प्रसूते

स विधिप्रत्ययप्रतिपाद्यः । प्रवृत्तिजनकेच्छाजनकज्ञानप्रकारः इत्यर्थः ।