This page has not been fully proofread.

न्यायकोशः ।
 
७५९
 
W
 
कुमार्याः पुंयोगे मानम् इति ( कि० व० ) (मु० ) ( म०प्र० ४ )
( त० कौ० ) । अथ वा वच्छिाविषयत्वम् । यथा घटमानय इत्यादौ
लोडर्थो विधि: ( तर्का० ४ पृ० ११) ( श० प्र० श्लो० १०१
टी० पृ० १४६ ) । अत्र घटकर्मकमदिच्छा विषयानयनानुकूलकृति-
मांस्त्वम् इत्यन्वयबोधः । अत्रेदं बोध्यम् । यजेत स्वर्गकामः न कलजं
भक्षयेत् इत्यादौ यागः स्वर्गकाम कर्तव्यत्वेनाप्ताभिप्रायविषयः कलञ्ज-
भक्षणं कर्तव्यत्वेनाप्ताभिप्रायविषयो न इति वाक्यद्वयार्थबोध: । यागादौ
चाप्ताभिप्रायविषयत्वेनेष्टसाधनत्वादिकमनुमाय प्रवृत्तिः । कलञ्जभक्षणादौ
तद्विषयत्वाभावेनानिष्टसाधनत्वमनुमाय निवृत्तिः इति ( म० प्र० ४
पृ० ५९ ) । भट्टमीमांसकास्तु विधिप्रेरणाप्रवर्तनादिशब्दाभिधेयः प्रवृत्य-
नुकूलव्यापार इत्याहुः । तन्मते त्वित्थम् । गामानय इत्याचार्यवाक्यश्रवणा-
नन्तरं शिष्यप्रवृत्तिदर्शनात् शब्दप्रवृत्तौ प्रवर्तनाज्ञानं हेतुः । सा च
प्रवर्तना पचेत इत्यादिलौकिकवाक्ये पुरुषनिष्ठोभिप्राय विशेषः । यजेत
स्वर्गकामः इत्यादिवैदिकवाक्ये तु पुरुषाभावाच्छन्दनिष्ठैव । न चेश्वर-
कर्तृकत्वं वेदस्य । ईश्वरस्यैवानभ्युपगमात् । शब्दनिष्ठत्वादेव च शब्द-
भावना इत्युच्यते । सैव विध्यर्थः । स च लिड्वेनाभिधीयते । अर्थ -
भावना तु प्रवृत्त्यादिव्यापाररूपा । सा चाख्यातत्वेनोपस्थाप्यते इति ।
तत्रोक्तम् अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या
सर्वाख्यातस्य गोचरः ॥ ( म० प्र० ४ पृ० ५८) इति । अयमाशयः ।
खर्गकामो यजेत इत्यादौ लिङादिप्रत्यये अंशद्वयमस्ति लिङ्वम् आख्या-
तत्वं च । तत्र लिङ्वांशेन प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो बोध्यते ।
ईश्वरानभ्युपगमात् । अयं शब्दभावना इत्युच्यते । तेन व्यापारेण च
•प्रवृत्त्याख्यो यागकर्तृपुरुषनिष्ठो व्यापार आख्यतत्वांन
उपस्थाप्यते । अयमेव अर्थभावना इत्युच्यते । एवं च पुरुषनिष्ठायाः
• प्रवृत्तेरनुकूलः प्रवर्तनाख्यः शब्दनिष्ठो व्यापारो विध्यर्थः इति ( लौ०
मा० ५० ५-१०)। प्राभाकरास्तु विध्यर्थः कार्यत्वमात्रम् । तच्च
• कृतिसाध्यत्वम् । तथा हि । यद्विषयिणी बुद्धिः प्रवृत्तिजननीमिच्छां प्रसूते
स विधिप्रत्ययप्रतिपाद्यः । प्रवृत्तिजनकेच्छाजनकज्ञानप्रकारः इत्यर्थः ।