This page has not been fully proofread.

७५८
 
न्यायकोशः ।
 
पदानां प्रयोजनं कथ्यते । पङ्गुः समुद्रं न तरेत् इत्यादौ नञादिना
 
समुद्रतरणादेः पङ्गुप्रभृतिकृतिसाध्यत्व निषेधबोधानुरोधादवश्यं कृति -
साध्यत्वं लिङर्थः स्वीकार्यः । तृप्तिकामो जलं न ताडयेत् इत्यादौ जल-
श्लो०
 
ताडनादेस्तृप्तिकामेष्टसाधनध्वस्य निषेधान्वयानुपपत्त्येष्टसाधनत्वं लिङ
वश्यं स्वीकर्तव्यः । अपरे तु चैत्यं न वन्देत इति वाक्यप्रामाण्यानुरोध-
नेष्टसाधनत्वस्य विध्यर्थत्वमाबश्यकम् इति वदन्ति ( ग० व्यु० ल० ) ।
न कल भुञ्जीत इत्यादौ कलञ्जभक्षणादेर्बलवदनिष्टाजनकत्वस्य निषेधा-
नुपपच्या बलवदनिष्टाननुबन्धित्वं लिङर्थोवश्यं स्वीकर्तव्यः ( श० प्र०
१० १०० टी० पृ० १४६ ) । कलञ्जो मांसविशेषः । तथा चोक्तं माघ-
वाचार्यैर्न्यायमालायाम् विषाक्तशराग्रेण विद्धा ये पशुपक्ष्या
तदेव कलञ्जम् इति । रक्तलशुनं कलञ्जम् इति हरदत्त आह । बलवद-
निष्टाननुबन्धित्वं चात्र नरकाजनकत्वम् पापाजनकत्वं वा (श० प्र०
१०० टी० पृ० १५१) । एतेषां बलवदनिष्टाननुबन्धित्वादिषु त्रिषु पृथगेव
● लिङ: शक्तित्रयं वदतां नव्यनैयायिकानां मते श्येनः स्वरूपत एव निषिद्धः
इति श्येनेनाभिचरन् यजेत इत्यादौ विधिप्रत्ययेन बलवद निष्ठावं
• कलअं भक्षयेत् इत्यादौ बलवदनिष्टाजनकत्वं विध्यर्थः । तदभावो नजात्र
न बोध्यते । अधिकं तु अभिचारशब्दव्याख्याने द्रष्टव्यम् । तथा च न
बोध्यते इति विज्ञेयम् (मु० ) ( दि० गु० पृ० २२५-२२९ ) /
अत्र वदन्ति । द्वेषविषयतावच्छेदकत्वोपलक्षित नरकत्वाद्याश्रयसाधनता
 
श्लो०
 
त्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशभावत्वेनानुगत एकैव विधि-

 
-
 
प्रत्ययस्य शक्तिः इति ( ग० व्यु० ले० पृ० १४८) । यजेतेत्यादौ
यागादिधर्मिकादिष्टसाधनत्वादिनिश्चयादेव यागादिधर्मिक चिकीर्षोत्पत्त्या
तत्र प्रवृत्तिः । एवं च यागादिः कृतिसाध्यः इष्टसाधनम् बलवद निष्ठा-
ननुबन्धी च इत्याकारको बोधः (श० प्र० श्लो० १०० टी० पृ० १४६)/
• उदयनाचार्यास्तु आप्ताभिप्रायो विध्यर्थ इत्याहुः (कु० ५ ) ( न्या०
• सि० दी० पृ० ६० ) ( म० प्र० ४ पृ० ५९ ) । तदर्थश्च आप्तस्य
परमेश्वरस्य अभिप्राय इच्छा लिङादिना बोध्यते । अत्रोक्तमुदयनाचार्यैः
यस्तु वेदे ईश्वरप्रणीतत्वम् नाभ्युपैति तं प्रति विधिरेव तावद्गर्भः श्रुति-