2023-12-02 13:31:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७५७
 
(शतपथ ० ) (तैं० सं० २ २) इति । अत्र अग्निदाहादौ निमित्ते

कर्म विदधता अनेन वाक्येन निमित्तवतः कर्मजन्यपापक्षयरूपफलखाम्यं

प्रतिपाद्यते ( लौ० भा० पृ० ३८) । एवम् अहरह: संध्यामुपासीत

(बौधायनसू०) इत्यादीन्यधिकार विधेरुदाहरणानि विज्ञेयानि । अत्र

शुचिविहितकालजीविनः संध्योपासनजन्यप्रत्यवायपरिहाररूपफलखाम्यं

चोद्यते (लौ० भा० पृ० ३८ ) । कुसुमाञ्जलिटीकायामित्थमुक्तम् ।

[ज] विधिर्नाम विधिप्रत्ययार्थः । अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन

प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः ( म०प्र० ४ पृ० ५८ ) इति ।

सच प्रवर्तकज्ञान विषयो धर्मः । अयं च धर्मो जरन्नैयायिकानां नये

कृतिसाध्यत्वे सति बलवद निष्टाजनकत्वसहित मिष्टसाधनत्वम् । अत्र कृति-

साध्ये तृप्तिरूपसुखात्मकेष्टसाधने च मधुविषसंपृक्तान्नभोजने प्रवृत्तिवार-

णाय बलवदनिष्टाजनकत्वं विशेषणमावश्यकम् । अत्र बलवदनिष्टं तु

मरणम् । यदा च तादृशभोजनं बलवदनिष्टाननुबन्धित्वेन ज्ञायते तदा स

पुरुषः प्रवर्तत एव इति विज्ञेयम् ( न्या० म० ख० ४ पृ० २६-२७ ) ।

अत्रेदं बोध्यम् । न कल भक्षयेत् इत्यादौ नना बोध्यमानो विशिष्टा-

भावः ( कृतिसाध्यत्व विशिष्टस्य बलवदनिष्टाजनकत्व विशिष्टस्येष्टसाधनत्व-

स्याभावः ) विशेष्यवति विशेषणाभावे विश्राम्यतीति (मु० गु० पृ०

(२२८ ) । एतन्मते श्येनस्य हिंसारूपत्वं नास्ति इति श्येनेनाभिचरन्

यजेत (अथर्वब्राह्म० ) इत्यादौ बलवदनिष्टाननुबन्धित्वरूपो विध्यर्थो

बोध्यते इति हृदयम् । यथा ओदनकामः पचेत स्वर्गकामो यजेतेत्यादौ

ओदनस्वर्गादिरूपं यत् फलम् तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते

( कु० टी० ५) ( त० प्र० ४ पृ० १०५ ) (तको ० ) (ग० व्यु०

ल० पृ० १३८ ) ( त० दी० ) ( मु० गु० ) ( दि० पृ० २२६) ।

नव्यनैयायिकमते तु प्रवर्तकचिकीर्षायां यत्प्रकारकज्ञानस्य हेतुत्वं स

विधिः । कृतिसाध्यत्वादिज्ञानेन चिकीर्षा तया च प्रवृत्तिरुत्पद्यते इति

समुदितार्थ: ( न्या० म० ४ पृ० २७ ) । तादृशं च कृतिसाध्यत्वम्

इष्टसाधनत्वम् बलवदनिष्टाननुबन्धित्वं च प्रत्येकमेव । यथा यजेत

पचेतेयादौ लिङर्थ: ( त० प्र० ४ पृ० १०२) । कृतिसाध्यत्वादि-