2023-12-02 13:31:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७५६
 
न्यायकोशः ।
 

 
अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि इत्याहुः । अयं विधिर्मानान्तरेणा-

प्राप्तं खर्गप्रयोजनवद्धोमं विधत्ते । अग्निहोत्रहोमेन स्वर्गे भावयेत् इति

वाक्यार्थबोध: ( लौ० भा० पृ० १३) । यत्र कर्म मानान्तरेण प्राप्तम्

तत्र तदुद्देशेन गुणमात्रं विधत्ते । यथा दना जुहोति (तै० ब्रा० २१११५ )

(शतप०) इति । अत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वाद्धोमो-

द्देशेन दधिमात्रविधानम् ! दना होमं भावयेत् इति वाक्यार्थः । यत्र तूभ-

यमप्राप्तम् तत्र विशिष्टं विधत्ते । यथा सोमेन यजेत (शतपथ ) इत्य

सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे त्व

सोमवता यागेनेष्टं भावयेत् इति वाक्यार्थबोध: ( लौ० भा० पृ० १३ ) ।

[च] धर्मार्थसाधकव्यापारो विधि: ( सर्व० सं० पृ० १६९ नकुली ० ) ।

[छ ] अज्ञातस्यानुष्ठेयत्वकथनं विधिः (जै० न्या० अ० १ पा० ४

अधि० ६ ) । सामान्यतोयं विधिर्द्विविधः लौकिक: वैदिकश्च । तत्र

लौकिक: ओदनका मस्तण्डुलं पचेत् इत्यादिः । वैदिक विधिस्तु स्वर्गकामो

यजेत ( शतपथ ० ) इत्यादिः । विधिः प्रकारान्तरेण त्रिविधः अपूर्वविधिः

नियमविधिः परिसंख्याविधिश्च ( न्या० म० ४ ) ( सि० च० ) ।

तदुक्तं भट्टपादैः विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्य

च प्राप्तौ परिसंख्येति कीर्यते ॥ ( न्या० म० ४ ) इति । तत्रापूर्व-

विधिश्चतुर्विधः उत्पत्तिविधिः विनियोगविधिः प्रयोगविधिः अधिकार-

विधिश्चेति (लौ० भा० पृ० १६ ) । तत्र प्राथमिक प्रतीतिविषयप्रवृत्ति
 

साधनेष्टसाधनताबोधकं कर्मस्वरूपज्ञापकं विधिवाक्यम् उत्पत्तिविधिः ।

यथा स्वर्गकामोश्वमेधेन यजेत (शतपथ ० ) इत्यादिवाक्यम् (वाच ० ) ।

अत्र शिष्टं तु उत्पत्तिविधिशब्दव्याख्याने दृश्यम् । अधिकार विधिश्व

कर्मणः फलसंबन्धबोधको विधिः । यथा ज्योतिष्टोमेन यजेत स्वर्गकामः

इत्यादिः ( म० प्र० पृ० ६३ ) । अथ वा कर्मजन्यफलस्खाम्यबोधको
 

विधिः । कर्मजन्यफलखाम्यं च
 
कर्मजन्यफलभोक्तृत्वम्। यथा
 

स्वर्गकामः इत्यादिरूपोधिकारविधिः । अत्र स्वर्गमुद्दिश्य यागं विदधताने

स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते ( लौ० भा० पृ० ३८) ।

यथा वा यस्याहिताग्नेरग्निगृहान् दहेत्सोग्नये क्षामवतेष्टाकपालं निर्वपेत्
 
यजेत