2023-10-18 08:08:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२७
 
-
 
ग्धसाध्यवान् । उदाहरणं च सर्वमनित्यं प्रमेयत्वादित्यादि । अत्र केव-

लान्वयी धर्मः सर्वत्वमिति बोध्यम् । एवमन्यत्रापि प्रमेयत्वाभिधेयत्वादिकं

केवलान्वयी धर्म इति ज्ञेयम् । न च सर्वमभिधेयं प्रमेयत्वादित्यत्राव्याप्तिः ।

विशेषादर्शनदशायां तस्यापि लक्ष्यत्वात् । अतएव तस्यानित्यदोषत्वम् ।

व्यतिरेकव्याप्तिग्रहप्रतिबन्धश्चास्य दूषकताबीज मिति तत्त्वम् ( म०प्र० २६)।

एतदादीनि लक्षणानि प्राचीनमताभिप्रेतानीति ज्ञेयम् । [ ग ] केवलान्व-

यिधर्मावच्छिन्नसाध्यसंदेहविषयवृत्तित्वम् । [घ ] साध्यवत्तानिश्चयसामा-

न्यविरोधिसंशय विषयवृत्तित्वमिति कश्चिदाह ( दीधि० २।२०२ ) । []

केवलान्वयिधर्मव्यापकीभूतं यत्स्वप्रतिबन्धकतावच्छेदकीभूतसाध्यवत्तानि

श्चयविशेष्यतासमानाधिकरणसाध्यसंशय विषयत्वं तद्वद्वृत्तित्वम् ( ग० ) ।

[ च ] किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति किंचिद्विशेष्यकनि-

श्चयाविषयसाध्याभावकत्वमिति प्राञ्चो वदन्ति ( नील० २५ ) ।

 
<
अनुपसंहारी>
( हेत्वाभासः ) [ क ] व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो

यत्र स हेत्वभिमतः । स चान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्वे दृष्टान्ता-

भावात् । अनित्यो घटो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादौ च

हेतुः । अत्र साध्यसाधनसाहचर्याज्ञानात्तस्य विरुद्धत्वाज्ञानदशायाम-

नुपसंहारित्वेनेष्टत्वात् ( चि० ९० ) । अयमनैकान्तिकप्रभेद इति

विज्ञेयम् । अनुपसंहारिणो लक्षणं तु पूर्वोक्तानुपसंहारित्वमेव । तद्धे-

तुकतत्साध्यकसाध्यसिद्ध्यौपयिकव्याप्तिग्रहानुकूलोपसंहाराभावस्तस्यानुप-

संहारित्वमित्यर्थो लभ्यते ( दीघि ० २ । २०० - २०१ ) । [ख] केव-

लान्वयिधर्मावच्छिन्नपक्षको हेतु: (चि० २१९० ) (भा०प० ७५ )

( गौ० वृ० १ । २ । ५ ) । अत्र पक्ष इत्यस्य साध्यनिश्चयविरोधिनः साध्य

वान्त्र वा इत्यादेः संदेहस्य विषय इत्यर्थः ( दीधि० २/२०१ ) ।

सर्वमभिधेयं प्रमेयत्वादिति सद्धेतौ न केवलान्वयी पक्षतावच्छेदको वा ।

निश्चितसाध्यवद्वृत्तित्वात् । विप्रतिपत्त्या साध्यानिश्चयदशायां पक्षत्वे तद-

नुपसंहार्येव । व्यतिरेकिसाध्य के साध्याभाववद्वृत्तित्वाज्ञानदशायामिदं दूष-

णम् । तदवगमेपि साधारणसंकर एव ( चि० २/९०) । [ग] वस्तु-