This page has not been fully proofread.

स्य
 
ti
 
पि
 
न्यायकोशः ।
 
७५५
 
तद्विधा ( मनु० २१११२ ) इत्यादौ । ४ काव्यज्ञास्तु सादृश्यम् । यथा
तथाविधः स्वार्थः ( श० प्र० श्लो० ७ टी० पृ० ८) इत्यादौ । यथा वा
किमप्यहिंस्यस्तव चेन्मतोहं यशःशरीरे भव मे दयालुः । एकान्त विध्वंसिषु
मंद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ (रघु० २।५७) इत्यादौ इत्याहुः ।
विधानम् – अप्रवृत्तप्रवर्तनम् । तच्च पुरुषविषयः शब्दव्यापारः (जै०
 
न्या० अ० २ पा० ३ अधि० १३ ) ।
 
-
 
विधिः – १ ( प्रमाणशब्दः ) [क] विधिविधायकः (गौ० २११/६३ ) ।
अयं विधिर्ब्राह्मणभागः (वात्स्या० २१११६२ ) । अत्राभिषैव लिङर्थः ।
सैव च प्रवृत्तिहेतुः इति विज्ञेयम् ( त० प्र० ख० ४ पृ० ९४ ) ।
अत्र विधिशब्दस्य विधिरूपशब्दे इष्टसाधनस्वादिरूपे विध्यर्थे च प्रयोगो
दृश्यते । तत्र विधायक इति आद्योर्थः । यद्वाक्यं विधायकं चोदकं स
विधिः। विधिस्तु नियोगोनुज्ञा वा । यथा अग्निहोत्रं जुहुयात्स्वर्गकामः
(शतपथ० २) इत्यादि ( वात्स्या० २।१।६३ ) । [ ख ] इष्टसाध-
नताबोधकप्रत्ययसमभिव्याहृतवाक्यम् ( गौ० वृ० २११/६३ ) । [ ग ]
विष्यभिधायकप्रत्ययः तद्घटितवाक्यं वा ( न्या० म० ४ ) । तदर्थश्च
विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः । तस्या-
भिधायकोवाचकः इति । अथ वा अर्थविशेषाभिधायकः प्रत्ययः । स
च प्रत्ययो लिङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति ( सि० च० ) ( म०
प्र० ४ पृ० ५८ ) ( त० प्र० ख० ४ पृ० ९३ ) । तद्घटितवाक्य-
मिति द्वितीयं लक्षणं तु तान्त्रिकमते यजेत इत्यादिवाक्यमेव विधिः न तु
केवलप्रत्ययः इत्यभिप्रायेण । [ घ] प्रवृत्तिपरं वाक्यम् । यथा ज्योति-
ष्टोमेन स्वर्गकामो यजेत ( शतपथ ० ) ओदनकामस्तण्डुलं पचेत इत्यादि ।
अत्र ज्योतिष्टोमनामको यागः स्वर्गरूपेष्टसाधनम् तण्डुलकर्मकः पाक
 
• ओदनरूपेष्टसाधनम् इत्युभयवाक्यार्थः । यजेत पचेतेत्यादिविधिप्रत्यये-
नेष्टसाधनत्वोपस्थापनात् ( त० कौ० ) । [ङ] मीमांसकास्तु अज्ञा-
तार्थज्ञापको वेदभागः (अपूर्वविधिः ) । स च तादृशप्रयोजनवदर्थ-
विधानार्थवान् । तादृशं चार्थे प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा