2023-12-02 13:29:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७५३
 
वार्तारम्भांश्च लोकतः ॥ ( मनु० अ० ७ श्लो० ४३ ) इति । वार्तिके

चोक्तम् चतत्र इमा विद्या भवन्ति । ताश्च पृथकूप्रस्थानाः अग्निहोत्र-

हवनादिप्रस्थाना त्रयी । हलशकटादिप्रस्थाना वार्ता । स्वाम्यमात्यभेदानु-

विधायिनी दण्डनीतिः । संशयादिभेदानुविधायिन्यान्वीक्षिकी ( न्या०

वा० पृ० १३) । ३ पौराणिकनये विद्याश्चतुर्दश अष्टादश चापि ।

ता उच्यन्ते । विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति । षडङ्गमिश्रिता

वेदा धर्मशास्त्रं पुराणकम् ॥ मीमांसा तर्कमपि च एता विद्याश्चतुर्दश

(नन्दिपु० ) इति । पुराणन्यायमीमांसाधर्मशास्त्राङ्ग मिश्रिताः । वेदाः

स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ( याज्ञ० १।३) इति च ।

अष्टादश चान्यत्रोक्ताः । ता उच्यन्ते । अङ्गानि वेदाश्चत्वारो मीमांसा

न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो

धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थ च विद्या ह्यष्टादशैव

ता: ( विष्णुपु० ) ( वाच० ) । श्रुतौ तु विद्या द्विविधोक्ता परा अपरा

च । तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा

इति श्रुतेः । ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा

( वाच० ) । विद्याभेदेन देवताभेदाः ( हेमा० ब्र० ) विष्णुधर्मोत्तरे

उक्ताः तास्तत्रैव दृश्याः । ४ पशुगुणो विद्या ( सर्व० सं० पृ १६७

नकुली ० )
(0)
 


 
<
विद्येश्वरः>
अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः । एकनेत्रस्तथैवैकरुद्र-

श्चापि त्रिमूर्तिकः ॥ श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे

( सर्व० सं० पृ० १८३ शै० ) ।
 

 

 
<
विधवा - >
मृतभर्तृका स्त्री। विधवाधर्माश्च (शु० त० ) विष्णुना उक्ता

यथा मृते भर्तरि ब्रह्मचर्यम् तदन्वारोहणं वा । तत्र ब्रह्मचर्य मैथुनवर्जनं
 

ताम्बूलादिवर्जनं च । यथाह प्रचेताः ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च

भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥ अनुयाि

न भर्तारं यदि दैवात्कदाचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥

विधवाकबरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात् व
 
कार्य
 

९५ न्या० को०
 
O
 
भू