2023-12-02 13:28:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७५२
 
न्यायकोशः ।
 
इति । अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा । यद्वै खलु तत्परप्रतिषेध -

वाक्यं स वैतण्डिकस्य पक्षः । न त्वसौ साध्यं कंचिदर्थं प्रतिज्ञाय स्थाप-

यतीति । तस्माद्यथान्यासमेवास्त्विति (वात्स्या० ११२१३ ) । अभ्युपेत्य

पक्ष योन स्थापयति वैतण्डिकः इत्युच्यते ( न्या० वा० १

पृ० १६ ) । इयं वितण्डारूपा कथा च परपक्षखण्डनेन जयमुद्दिश्यैव

प्रवर्तते । [ख ] प्रतिपक्षस्थापनाहीना विजिगीषुकथा ( गौ० दृ

१।२।३) । [ग] स्वपक्षस्थापनाहीना कथा परपक्षदूषणमात्रावसाना

( वात्स्या० १ । १ । १ ) ( त० भा० ) ( त० दी० ) ( सर्वे० पृ० २३९

अक्ष० ) । तदेवोच्यते जल्प एव वितण्डा स्यात् प्रतिपक्षत्वसाधनैः इति

( ता० २० श्लो० ७९ ) । [व] प्रतिपक्षस्थापनाहीनं च वाक्य
 

( न्या० वा० १ पृ० १६) ।
 

 
<
वितकः - >
१ प्रयोक्त: संभावनात्मकं ज्ञानम् । यथा किमिन्दुः किं पद्मं किमु

मुकुरबिम्बं किमु मुखम् इत्यादौ किंपदार्थः । अत्र अव्ययकिमर्थस्य

संभावनात्मकज्ञानस्य विशेष्यतासंबन्धेन प्रथमान्तपदोपस्थाप्य विशेष

अन्वयः । प्रकारितासंबन्धेन तत्र च विशेषणस्य चन्द्रादेरन्वयः (ग
विद्या –

 
<विद्या>
( बुद्धिः ) १ ज्ञानम् । तच्च कणादनये यथा विशेषणवद्विशेष्य

शक्ति० पृ० १०८ ) । २ आलंकारिकास्तु अर्थालंकारविशेषः इत्याहुः ।

यथार्थज्ञानमिति भावः । विद्याया विभागादिकं तु बुद्धिशब्दव्याख्याने

दृश्यम् । २ विजातीयज्ञानहेतुः शास्त्रम् । यथा आन्वीक्षिकी न्यायविद्या

सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैर्विभज्यमाना प्रदीपः सर्वविद्याना

( वात्स्या० १।१।१ ) इति । न्यायनये विद्याश्चतस्रः आन्वीक्षिकी

मुपाय: सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता

त्रयीवार्तादण्डनीतिरूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः (गौ

दृ० १।१।१ ) । तदर्थश्च आन्वीक्षिकी न्यायविद्या । त्रयी वेदविद्या

वार्ता नीतिशास्त्रम् । दण्डनीतिस्त्वर्थशास्त्रम् इति । मनुना चोत

त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिक चात्मनि
 
-