2023-12-02 13:27:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७५१
 
<विजया - >
(सप्तमी ) शुक्लपक्षस्य सप्तम्यां रविवारो भवेद्यदि । सप्तमी

विजया ज्ञेया तत्र दत्तं महाफलम् ॥ ( पु० चि० पृ० १०५ ) ।

 
<
विजातीयम्>
१ लक्ष्यतावच्छेद कसाक्षाव्या पक जात्य नवच्छिन्नम् । यथा

गोविजातीयो घटः । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य विजातीय-

व्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य साक्षा-

व्यापकं पशुत्वम् । तदनवच्छिन्नो घटो भवति इति विज्ञेयम् ( प्र०

च० पृ० ३ ) । २ तद्वृत्त्यसाधारण विशेषधर्मशून्यस्त द्विजातीयः' इति

तु वयं ब्रूमः ।
विज्ञानम् –

 
<विज्ञानम्>
१ बुद्धिशब्दवदस्यार्थोनुसंधेयः । २ पौराणिकाश्च चतुर्दशविद्या-

धारणम् इत्याहुः । तदुक्तम् चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।

विज्ञानमितरद्विद्याद्येन धर्मो विवर्धते ॥ ( कूर्मपु० अ० १४ )

( वाच० ) इति । ३ मायावादिनस्तु अविद्यावृत्तिविशेषः आत्मैक्यज्ञानं च

विज्ञानम् इत्यङ्गीचक्रुः । ४ काव्यज्ञास्तु शिल्पादिज्ञानम् इत्याहुः ।

५ विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् प्रवृत्तिविज्ञानम् आलय-

विज्ञानं च। तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि

इत्याकारकम् । तदेव आत्मा इत्युच्यते इति वदन्ति । ६ निरवशेषशास्त्र-

विषयं ग्रन्थतोर्थतश्च सिद्धिज्ञानं विज्ञानम् (सर्व० सं० पृ० १६६ नकुली० ) ।

 
<
विज्ञानस्कन्धः>
आलयविज्ञान प्रवृत्ति विज्ञानप्रवाहः ( सर्व० सं० पृ०

४० बौ०) ।

 
<
विज्ञानाकलः>
विज्ञानयोगसंन्यासैर्भोगेन वा क
 

कलादिभोगबन्धस्याभावात्केवलमलमात्रयुक्तो विज्ञानाकल: (सर्व० सं०

पृ० १८२ शै० ) ।
 

 
<
वितण्डा - >
( कथा ) [क] स प्रतिपक्षस्थापनाहीनो वितण्डा ( गौ०

१/२/३ ) । स जल्पो वितण्डा भवति । किंविशेषणः । प्रतिपक्ष-

स्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मों पक्षप्रतिपक्षा-

वित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रयर्तत