This page has not been fully proofread.

न्यायकोशः ।
 
७५१
 
विजया - (सप्तमी ) शुक्लपक्षस्य सप्तम्यां रविवारो भवेद्यदि । सप्तमी
विजया ज्ञेया तत्र दत्तं महाफलम् ॥ ( पु० चि० पृ० १०५ ) ।
विजातीयम् –१ लक्ष्यतावच्छेद कसाक्षाव्या पक जात्य नवच्छिन्नम् । यथा
गोविजातीयो घटः । तथा हि गोर्लक्षणस्य सास्नादिमत्त्वस्य विजातीय-
व्यावृत्ति प्रयोजनकत्वे गोत्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य साक्षा-
व्यापकं पशुत्वम् । तदनवच्छिन्नो घटो भवति इति विज्ञेयम् ( प्र०
च० पृ० ३ ) । २ तद्वृत्त्यसाधारण विशेषधर्मशून्यस्त द्विजातीयः' इति
तु वयं ब्रूमः ।
विज्ञानम् – १ बुद्धिशब्दवदस्यार्थोनुसंधेयः । २ पौराणिकाश्च चतुर्दशविद्या-
धारणम् इत्याहुः । तदुक्तम् चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमितरद्विद्याद्येन धर्मो विवर्धते ॥ ( कूर्मपु० अ० १४ )
( वाच० ) इति । ३ मायावादिनस्तु अविद्यावृत्तिविशेषः आत्मैक्यज्ञानं च
विज्ञानम् इत्यङ्गीचक्रुः । ४ काव्यज्ञास्तु शिल्पादिज्ञानम् इत्याहुः ।
५ विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् प्रवृत्तिविज्ञानम् आलय-
विज्ञानं च। तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि
इत्याकारकम् । तदेव आत्मा इत्युच्यते इति वदन्ति । ६ निरवशेषशास्त्र-
विषयं ग्रन्थतोर्थतश्च सिद्धिज्ञानं विज्ञानम् (सर्व० सं० पृ० १६६ नकुली० ) ।
विज्ञानस्कन्धः–आलयविज्ञान प्रवृत्ति विज्ञानप्रवाहः ( सर्व० सं० पृ०
४० बौ०) ।
विज्ञानाकलः– विज्ञानयोगसंन्यासैर्भोगेन वा क
 
कलादिभोगबन्धस्याभावात्केवलमलमात्रयुक्तो विज्ञानाकल: (सर्व० सं०
पृ० १८२ शै० ) ।
 
वितण्डा - ( कथा ) [क] स प्रतिपक्षस्थापनाहीनो वितण्डा ( गौ०
१/२/३ ) । स जल्पो वितण्डा भवति । किंविशेषणः । प्रतिपक्ष-
स्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मों पक्षप्रतिपक्षा-
वित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रयर्तत