2023-12-02 13:26:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७५०
 
न्यायकोशः ।
 
अत्रेदमधिकं ज्ञेयम् । विग्रह एव समासलभ्यार्थस्य बोधकत्वं तन्त्रम् न तु

समासे विग्रहार्थस्य । विग्रहलभ्ययोर्लिङ्गसंख्ययोर्व्यञ्जकवैधुर्येण
 
प्रायशः
 

समासाबोध्यत्वात् ( श० प्र० श्लो० ३२ पृ० ४० ) इति । केचिच्छा

ब्दिकाः वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति वदन्ति ( म० प्र० ४

पृ० ४३ ) । अन्ये वैयाकरणास्तु समासादिवृत्तिसमानार्थक वाक्यविशेषः

इत्याहुः । २ विशेषज्ञानम् । यथा अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः

( हरिवं ० ) इत्यादौ इति पौराणिका आहुः । ३ विस्तारः इत्यमरसिंह

आह । ४ युद्धम् इति नीतिशास्त्रज्ञा आहुः । ५ देहः इति काव्यज्ञा वदन्ति ।

 
<
विघातः - >
१ ध्वंस: ( दि० १ ) । यथा विघ्नविधाताय मङ्गलम् (मु०
 

१ ) इत्यादौ । २ आघातः ।
 

 
<
विघ्नः>
समीहितक्रियास्वरूपप्रतिबन्धकम् । तच कचित् दुरितम् ( कि०

व० ४ ) । यथा सर्वे विघ्नाः शमं यान्ति विघ्नेशस्तवपाठतः इत्यादौ /

लक्षणं तु विनत्वम् । तच्च मङ्गलनाश्यतावच्छेदकः अदृष्टनिष्ठो जाति

विशेषः / विघ्नकारणं च मङ्गलाभावेतर विघ्नप्रागभावनाशक कारण
 

कलापः ( मू० म० १) ।
 

 
<
विचार : - >
१ विपरीतोद्भावकपर विजिगीषया न्यायप्रयोगः इत्यस्मद्गुरुचरणा:

प्राहुः । यथा परार्थानुमानस्थले पर्वतो वह्निमान् धूमवत्त्वात् इत्यादि ।

अत्र च पर्वते वहौ साधनीये प्रतिवादिना पर्वतो न वह्निमान् इत्यादि

विपरीतवाक्ये प्रयुक्ते मध्यस्थस्य संशयो जन्यते । तन्निवृत्तिद्वारा प्रतिवादि
 

पराभवार्थ वादिना पर्वतो वह्निमान् इत्यादिप्रतिज्ञाघटितवाक्यप्रयोगलप

विचारः क्रियते इति विज्ञेयम् । २ तत्त्वनिर्णयः । ३ संदिग्धे बस्तु

प्रमाणेन तत्त्वपरीक्षायां तदनुगुणो वाक्यसमूहो विचारः ।

 
<
विचिकित्सा>
( दोष: ) संशयशब्दवदस्यार्थोनुसंधेयः ( अमरः

 
<
विच्छिन्नत्वम् - >
बलवता क्लेशेनाभिभवः ( सर्व० सं० पृ० ३५९ पात ०

 
<
विजयः- >
ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम काल
 

सर्वकार्यार्थसाधकः ॥ (पु० चि० १० १४८)।
 
-
 
رم