न्यायकोशः /804
This page has not been fully proofread.
७५०
न्यायकोशः ।
अत्रेदमधिकं ज्ञेयम् । विग्रह एव समासलभ्यार्थस्य बोधकत्वं तन्त्रम् न तु
समासे विग्रहार्थस्य । विग्रहलभ्ययोर्लिङ्गसंख्ययोर्व्यञ्जकवैधुर्येण
प्रायशः
समासाबोध्यत्वात् ( श० प्र० श्लो० ३२ पृ० ४० ) इति । केचिच्छा
ब्दिकाः वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति वदन्ति ( म० प्र० ४
पृ० ४३ ) । अन्ये वैयाकरणास्तु समासादिवृत्तिसमानार्थक वाक्यविशेषः
इत्याहुः । २ विशेषज्ञानम् । यथा अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः
( हरिवं ० ) इत्यादौ इति पौराणिका आहुः । ३ विस्तारः इत्यमरसिंह
आह । ४ युद्धम् इति नीतिशास्त्रज्ञा आहुः । ५ देहः इति काव्यज्ञा वदन्ति ।
• विघातः - १ ध्वंस: ( दि० १ ) । यथा विघ्नविधाताय मङ्गलम् (मु०
१ ) इत्यादौ । २ आघातः ।
विघ्नः – समीहितक्रियास्वरूपप्रतिबन्धकम् । तच कचित् दुरितम् ( कि०
व० ४ ) । यथा सर्वे विघ्नाः शमं यान्ति विघ्नेशस्तवपाठतः इत्यादौ /
लक्षणं तु विनत्वम् । तच्च मङ्गलनाश्यतावच्छेदकः अदृष्टनिष्ठो जाति
विशेषः / विघ्नकारणं च मङ्गलाभावेतर विघ्नप्रागभावनाशक कारण
कलापः ( मू० म० १) ।
•विचार : - १ विपरीतोद्भावकपर विजिगीषया न्यायप्रयोगः इत्यस्मद्गुरुचरणा:
प्राहुः । यथा परार्थानुमानस्थले पर्वतो वह्निमान् धूमवत्त्वात् इत्यादि ।
अत्र च पर्वते वहौ साधनीये प्रतिवादिना पर्वतो न वह्निमान् इत्यादि
विपरीतवाक्ये प्रयुक्ते मध्यस्थस्य संशयो जन्यते । तन्निवृत्तिद्वारा प्रतिवादि
पराभवार्थ वादिना पर्वतो वह्निमान् इत्यादिप्रतिज्ञाघटितवाक्यप्रयोगलप
विचारः क्रियते इति विज्ञेयम् । २ तत्त्वनिर्णयः । ३ संदिग्धे बस्तु
• प्रमाणेन तत्त्वपरीक्षायां तदनुगुणो वाक्यसमूहो विचारः ।
विचिकित्सा – ( दोष: ) संशयशब्दवदस्यार्थोनुसंधेयः ( अमरः
• विच्छिन्नत्वम् - बलवता क्लेशेनाभिभवः ( सर्व० सं० पृ० ३५९ पात ०
• विजयः- ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम काल
• सर्वकार्यार्थसाधकः ॥ (पु० चि० १० १४८)।
-
رم