This page has not been fully proofread.

या
 
न्यायकोशः ।
 
७४९
 
मुपक्रम्य परिषदि श्रोतुमेकाग्रमनसि प्रतियोगिनि च दत्तावधाने संप्रति
मे महत्प्रयोजनमस्ति श्वः परश्वो वा कथयिष्यामि इति कस्यचियाजस्य
वचने तस्य विक्षेपलक्षणं नाम निग्रहस्थानमाहुराचार्याः ( सा० सं०
पृ० ११५ ) । २ चित्तस्य नवविधो भ्रंशो विक्षेपः इति पातञ्जलयोग-
शास्त्रज्ञा आहुः । अत्र सूत्रम् व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्ति-
दर्शनालब्ध भूमिकत्वानव स्थितत्वानि चित्तविक्षेपाः तेन्तरायाः (पात●
सू० पाद० १ सू० ३०) इति । ३ मायावादिनस्तु अविद्याशक्ति-
विशेषः । यथा रज्वज्ञानं स्वावृतरज्जौ स्वशक्तया सर्पादिकमुद्भावयति इत्यादौ
इत्याहु: ( वेदा० सा० ) । ४ विमण्डले यग्रहस्थानम् तस्य क्रान्ति-
वृत्ताद्यत् तिर्यगन्तरम् स विक्षेपः इति ज्योतिर्विद आहुः (सि० शि० ) ।
२२
अयमेव शरः इत्युच्यते । ५ स्त्रीणां सत्त्वजोलंकारविशेषः इत्यालंकारिका
आहुः । तदुक्तम् भूषाणामर्धरचना वृथा विश्वगवेक्षणम् । रहस्याख्यान-
मीषच्च विक्षेपो दयितान्तिके ॥ ( सा० द० परि० ३ श्लो० १०८
पृ० १३१ ) इति । अयं च स्त्रीणां सत्त्वजानामष्टाविंशतिसंख्यकानाम-
लंकाराणामन्यतमः स्वभावजो विक्षेपो नाम विच्छित्तिविशेषं पुष्णाति
( सा० द० परि० ३ श्लो० ९२ पृ० १२१) ।
विगीतत्वम्—१ वेदनिषिद्धत्वम् (चि० १) । यथा सुरापानादेर्विगीतत्वम् ।
अत्र निषेधकश्रुतिः न सुरां पिबेत् इत्यादिः । सर्वे मद्यमपेयम् ( आप०
स्मृ० ) इति स्मृतिश्च । अत्र वेदपदं स्मृत्यायुपलक्षणम् । न कुर्यान्निष्फलं
कर्म इत्यादिना निष्फलजलताडनादेरपि निषिद्धत्वात् । २ लौकिक-
विषयकत्वम् । ३ वेदनिषिद्धविषयकत्वम् । यथा मङ्गलं कर्तव्यम्
अलौकिका/विगीतशिष्टाचारविषयत्वात् दर्शादिवत् इत्यादौ विगीतत्वम् ।
४ पापजनकत्वम् । ५ बलवद निष्टानुबन्धित्वम् (मू० म० १) ( दि० १)
( म० वा० १ ) ।
 
विग्रहः–१ निर्देशे यथावचनम् (वात्स्या० १११११) (न्या० वा० १
पृ० ११) । यथा प्रमाणप्रमेयसंशय प्रयोजन इत्यादिसूत्रे प्रमाणानि च प्रमेयं
च संशयश्च प्रयोजनं च इत्यादिविग्रहं वर्णयन्ति ( गौ० वृ० १।१।१ ) ।