2023-11-26 06:44:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७४७
 
इति चोदकशब्दितातिदेशवाक्येन इति ( लौ० भा० पृ० २३ ) ।

४ स्वरविशेषः । यथा श्रीरागे गान्धारो विकृतिस्वरः इति गायका आहुः ।

 
<
विक्रयः>
[ क ] मूल्यग्रहणपूर्वकं दानम् । यथा तुरगमस्मै विक्रीणीत

इत्यादौ धात्वर्थः । अत्र तुरगश्च न मूल्यम् । पणपुराणादेरेव शास्त्रे

तथात्वोपदेशात् ( श० प्र० श्लो० ६९ टी० पृ० ८६ ) । अथ क्रय-

विक्रयविचारे विवादचिन्तामणौ कात्यायनः पण्यं गृहीत्वा यो मूल्यमद-

त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमानुयात् ॥ इति ।

मनुः विक्रयाद्यो धनं किंचिह्णीयात् कुलसंनिधौ । क्रयेण स विशुद्धं हि

न्यायतो लभते धनम् ॥ ( मनु० अ० ८ श्लो० २०१) । क्रीत्वा

विक्रीय वा किंचिद्योस्येहानुशयो भवेत् । सोन्तर्दशाहात्तद्रव्यं दद्या-

चैवाददीत च ॥ ( मनु० अ० ८ श्लो० २२२) इति । याज्ञवल्क्य-

नारदौ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विकेतुरेवासौ याचित-

स्याप्रयच्छतः ॥ ( याज्ञ० अ० २ श्लो० २६१ ) इति । स्वं लभेतान्य-

विक्रीतं क्रेतुर्दोषोप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥

( याज्ञ० अ० २ श्लो० १७३) । विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृहति ।

हानिश्चेत्केतृदोषेण क्रेतुरेव हिसा भवेत् ॥ (याज्ञ० अ० २ श्लो० २६०)

इति । [ख] मूल्यग्रहणजन्यस्य परस्वत्वस्यानुकूलत्यागः । ग्रामं विक्रीणा-

तीत्यादौ ग्रामनिष्ठस्य मूल्यग्रहणजन्यपरस्वत्वस्यानुकूलो यो ग्रामस्य त्यागः

तान् इति बोध: ( श० प्र० श्लो० ७२ पृ० ९६ ) । [ग]

परस्वत्वजन कमूल्यग्रहणं वा । यथा ग्रामं विक्रीणातीत्यत्र धात्वर्थो विक्रयः ।

अत्र पक्षे ग्रामं विक्रीणातीत्यादौ ग्रामनिष्ठं यत्परस्वत्वम् तदनुकूलमूल्य-

ग्रहणवान् इति बोधः । मूल्यं च पणपुराणादिकमेव राजनिर्दिष्टम् न

तु द्रव्यमात्रम् । तेन तिलादीन् दत्वा माषादीनां विनिमये विप्राणां तिल-

विक्रयादिदोषस्यानवकाशः ( श० प्र० श्लो० ७२ टी० ९७ ) ।

[व] मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वजनकल्यागः । यथा गां विक्रीणा-

तीत्यादौ इति प्राञ्च आहुः । अत्र गोवृत्तिमूल्य ग्रहण प्रयुक्तस्वस्वत्वध्वंस-

परस्वत्वानुकूलत्यागव्यापारानुकूलकृतिमान् इत्येवं बोध: ( का० व्या

का० ४५० ५) ।
 
पृ०
 
.