न्यायकोशः /80
This page has not been fully proofread.
२६
न्यायकोशः ।
रणाभावो न स्यात् अपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं
बाधकं युक्तम् ( गौ०० ५ । १ । २९) । [ग] वादिनानुपलब्धिवशा-
त्कस्य चित्पदार्थस्यानङ्गीकारेनुपलब्धिवशादेव वाद्यभिमतस्यापि यत्कि-
चित्पदार्थस्याभावसाधनम् । यथा जलादेर्विद्यमानस्याप्यावरणवशादंनु-
पलब्धि: तद्वत् उच्चारणा पूर्व शब्दस्य विद्यमानस्याप्यावरणवशादनुप-
लब्धिः । इत्येतन्मतं वादिना दूष्यते । यद्यावरणवशाच्छन्दो नोपलभ्यते
तदा जलाद्यावरणमित्र शब्दाद्यावरणमप्युपलभ्येतेति । तत्रोत्तरम् । यदि
भवद्भिरनुपलब्धित आवरणं न स्वीक्रियते तदानुपलब्धेरप्यनुपलब्ध्या
अभावे सिद्धे तद्भावादावरणाभावासिद्धावावरणसिद्धिरिति ( नील ०
४४–४५)। [ घ ] स्वस्मिन्विषयिधर्माणां तदतद्रूपकल्पनात् । विप-
र्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ( ता० र०प० २ श्लो० १२३)।
-
अनुपसंहारित्वम् – ( हेतुदोषः ) [ क ] विशिष्टसाध्यसाधनग्रहाविरोधिनो
ज्ञानस्य विषयतया व्यतिरेकव्याप्तिग्रहविरोधितावच्छेदकरूपवत्वम् । ता-
दृशं रूपं च साध्यादिनिष्ठमयन्ताभावाप्रतियोगित्वादिकम् । साध्यसाधन-
योरप्रसिद्धेरसिद्धिभेदस्य वारणायाविरोधिन इत्यन्तम् । यस्य साध्यादेरत्य-
न्ताभावः अप्रसिद्धस्तन्निष्ठमप्रतियोगित्वमित्यर्थः । इदं लक्षणोदाहरणादिकं
च नव्यमतानुसारेणेति बोध्यम् (दीवि० २।२०४) (नील० २५ ) । यथा
इदं वाच्यं ज्ञेयत्वादित्यादौ वाच्यत्वादिनिष्ठमत्यन्ताभावा प्रतियोगित्वादिकम-
नुपसंहारित्वम् । अत्रेदमाकूतम् । इदं वाच्यं ज्ञेयत्वादित्यादौ ज्ञेयत्वे वाच्य-
खात्यन्ताभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञाने ( भ्रमा-
त्मके) अत्यन्ताभावांशे वाच्यत्वप्रतियोगिकत्वस्य भासने तुल्य वित्तिवेद्यतया
वाच्यत्वांशे अत्यन्ताभावप्रतियोगित्वमपि भासते । तथा च वाच्यत्वांशे
अत्यन्ताभाव प्रतियोगित्वविषयकं व्यतिरेकव्याप्तिग्रहं प्रति वाच्यत्वांशे
अत्यन्ताभावाप्रतियोगित्वरूपानुसंहारित्वनिश्चयस्य तदभाववत्ताज्ञानमुद्रया
विरोधित्वाल्लक्षणसमन्वय इति । [ ख ] अवृत्तिसाध्यहेत्वन्यतरत्वम् अवृ-
त्तिसाध्यकत्वं वा । यथा आकाशवान्धूमादित्यादौ ( न्या० म० २ । २० ) ।
वस्तुतस्तु केवलान्वयिधर्मावच्छिन्न पक्षकत्वमनुपसंहारित्वम् । पक्षः संदि-