2023-11-26 06:40:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

{
 
न्यायकोशः ।
 
७४५
 
सू० ७७ ) इत्यादिना इकारादेर्विकारो यकारादिः इति । परे तु इकारे

प्रयोक्तव्ये यकारः प्रयोक्तव्यः इत्यादेशमादिशन्ति (गौ० वृ० २।२।४० ) ।

३ यास्कोक्ता भावविकाराः षट् । जायते अस्ति विपरिणमते वर्धते अप-

क्षीयते विनश्यति इति षड् भावविकारा भवन्तीति वार्ष्यायणिः ।

विकार्यम् – ( विकृतिरूपं कर्म ) [ क ] क्रियानिष्पाद्यं यत्तत् । यथा तण्डु-

लानोदनं पचति कुसुमानि स्रजं करोति काशान्कटं करोतीत्यादौ प्रकृति-

भूततण्डुलकुसुमकाशादिपदसमभिव्याहारे ओदनस्रगादि विकार्यरूपं कर्म

भवति । अत्र विकार्यपदेन एकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेपि उभय-

साधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम् । अत्रेदं बोध्यम् ।

ओदनस्रगादेर्यदा कर्मत्वम् तदा तत्प्रकृतिभूततण्डुलकुसुमादीनामपि

कर्मत्वं बोध्यते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव

प्रत्याय्यते । अतः काष्ठानि भस्मराशिः क्रियन्ते इति प्रयोग उपपद्यते ।

अत्र भस्म दिनिर्वर्त्यकर्मताया लकारेणानभिधानेपि तत्कर्मताया धात्वर्थे

संसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता । प्रातिपदि-

कार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुत्वात् ( ग०

व्यु० का० २ पृ० ६७ ) इति । [ख ] यल्ल॒क्ष्यं तन्नाशकमेवा-

बस्थान्तरमापद्यते तत् । यथा काष्ठं भस्म करोति सुवर्णे कुण्डलं करो-

तीत्यादौ काष्ठादि । अत्र काष्ठादिपलक्ष्यस्य काष्ठावयवादेः स्वनाशक-

भस्मादिरूपावस्थान्तरप्राप्तेर्लक्षणसमन्वयः । ओदनं पचतीत्यादौ ओदन-

पदलक्ष्य ओदनावयवः । पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नस्तेजःसंयोगः ।

तथा च धात्वर्थजन्यफलशालित्वात् सतोषस्थान्तरप्राप्तेश्चोभयविधकर्मत्व-

मोदनावयवस्येष्टम् ( का० व्या० पृ० ६) । [ग] शाब्दिकास्तु प्रकृति-

विवक्षायां निष्पाद्यम् । काष्ठं भस्म करोतीत्यादौ असत्या एव काष्ठादि-

रूपप्रकृतेः परिणामित्वेन विवक्षास्ति इत्याहुः । तदुक्तमविकायें तु

द्वेधा कर्म व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किंचित्काष्ठादिभस्मवत् ।

किंचिगुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । तलक्षणं तु प्रतीयमान प्रकृति-

विकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्व उत्पत्ति एतदन्यतरफलव-

९४ न्या० को०
 
O