2023-11-26 06:29:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
इति पौराणिका आहुः । ८ सुरभीकरणम् इत्यालंकारिका आहुः ।

९ भगवदिच्छा । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः

प्रकृष्टकरणाद्वासना वासयेद्यतः ॥ ( सर्व० सं० पृ० १४१ पूर्ण० ) ।
 
७४२
 
-
 

 
<
वासवम्>
धनिष्ठानक्षत्रम् ( पुरु० चि० पृ० ३५४ ) ।
 
वि –

 
<वि>
( अव्ययम् ) १ विरोध: ( गौ० वृ० १ । १ । २३ ) । यथा विमर्श:

संशयः ( गौ० १ । १९२३) इत्यादौ । यथा वा वैधर्म्यमित्यादौ विरुद्धो

। धर्मः (मु० १) इति । २ नाना । यथा विचित्रमित्यादौ । ३ वियोगः ।

यथा वियुक्तमित्यादौ । ४ अतिशयः । यथा विकीर्ण इत्यादौ । ५ भृशम् ।

यथा वितटा नदीत्यादौ । ६ मोहः । यथा विमनस्क इत्यादौ । ७ ईशः ।

यथा विभुरित्यादौ । ८ वाम् । यथा विवदतीत्यादौ । ९ पैशून्यम्/

यथा विगायतीत्यादौ । १० अस्मरणम् । यथा विस्मृत इत्यादौ ।

११ भूषा । यथा विभूषित इत्यादौ । १२ ईषदर्थः । यथा विलोपित

इत्यादौ । १३ अनाभिमुख्यम् । यथा विमुख इत्यादौ । १४ अनवस्था ।

यथा विभ्रान्त इत्यादौ । १५ आमुख्यम् । यथा विवृष्ट इत्यादी ।

१६ स्यैर्यम् । यथा विश्रान्त इत्यादौ । १७ दर्शनम् । यथा

तीत्यादौ ( गणरत्न० ) । १८ नियोगः । १९ विशेषः । २० ।

२१ असहनम् । २२ निग्रहः । २३ हेतुः । २४ अव्याप्तिः ।

२५ परिभवः । २६ आलम्बनम् । २७ ज्ञानम् । २८ आलस्यम्/

२९ पालनम् ( शब्दच ० ) ( मेदि० ) । ३० पक्षी । ३१ परमात्मा

चेति ( अमरः ) । अत्र उपसर्गाणामर्थविशेषद्योतकत्वमेव न तु वाचक
 

त्वमित्यवधेयम् ।
 

 
<
विकरण धर्मित्रम्>
( क्रियाशक्तिः) उपसंहृतकरणस्यापि निरतिशयैश्वर्य
 

संबन्धित्वम् ( सर्व० सं० पृ० १६७ नकुली० ) ।
 

 
<
विकरणलाभः - >
कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्ष
 

त्तिलाभः ( सर्व० सं० पृ० ३८४-३८५ पात० ) ।

 
<
विकल्पः - >
१ प्रकारता । यथा सविकल्पकं ज्ञानम् इत्यादौ । २ वैचित्र्यम्

तच कचित्सत्त्वम् कचिदसत्वम् ( गौ० वृ० ५/१/४ ) । यथा साध्या
 
-
 
-
 
विलोक.
निश्चयः ।
 
FIN