This page has not been fully proofread.

न्यायकोशः ।
 
इति पौराणिका आहुः । ८ सुरभीकरणम् इत्यालंकारिका आहुः ।
९ भगवदिच्छा । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः
प्रकृष्टकरणाद्वासना वासयेद्यतः ॥ ( सर्व० सं० पृ० १४१ पूर्ण० ) ।
 
७४२
 
-
 
वासवम् – धनिष्ठानक्षत्रम् ( पुरु० चि० पृ० ३५४ ) ।
 
वि – ( अव्ययम् ) १ विरोध: ( गौ० वृ० १ । १ । २३ ) । यथा विमर्श:
संशयः ( गौ० १ । १९२३) इत्यादौ । यथा वा वैधर्म्यमित्यादौ विरुद्धो
। धर्मः (मु० १) इति । २ नाना । यथा विचित्रमित्यादौ । ३ वियोगः ।
• यथा वियुक्तमित्यादौ । ४ अतिशयः । यथा विकीर्ण इत्यादौ । ५ भृशम् ।
• यथा वितटा नदीत्यादौ । ६ मोहः । यथा विमनस्क इत्यादौ । ७ ईशः ।
यथा विभुरित्यादौ । ८ वाम् । यथा विवदतीत्यादौ । ९ पैशून्यम्/
यथा विगायतीत्यादौ । १० अस्मरणम् । यथा विस्मृत इत्यादौ ।
११ भूषा । यथा विभूषित इत्यादौ । १२ ईषदर्थः । यथा विलोपित
इत्यादौ । १३ अनाभिमुख्यम् । यथा विमुख इत्यादौ । १४ अनवस्था ।
• यथा विभ्रान्त इत्यादौ । १५ आमुख्यम् । यथा विवृष्ट इत्यादी ।
१६ स्यैर्यम् । यथा विश्रान्त इत्यादौ । १७ दर्शनम् । यथा
तीत्यादौ ( गणरत्न० ) । १८ नियोगः । १९ विशेषः । २० ।
२१ असहनम् । २२ निग्रहः । २३ हेतुः । २४ अव्याप्तिः ।
२५ परिभवः । २६ आलम्बनम् । २७ ज्ञानम् । २८ आलस्यम्/
२९ पालनम् ( शब्दच ० ) ( मेदि० ) । ३० पक्षी । ३१ परमात्मा
चेति ( अमरः ) । अत्र उपसर्गाणामर्थविशेषद्योतकत्वमेव न तु वाचक
 
त्वमित्यवधेयम् ।
 
विकरण धर्मित्रम् – ( क्रियाशक्तिः) उपसंहृतकरणस्यापि निरतिशयैश्वर्य
 
• संबन्धित्वम् ( सर्व० सं० पृ० १६७ नकुली० ) ।
 
विकरणलाभः - कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्ष
 
त्तिलाभः ( सर्व० सं० पृ० ३८४-३८५ पात० ) ।
विकल्पः - १ प्रकारता । यथा सविकल्पकं ज्ञानम् इत्यादौ । २ वैचित्र्यम्
तच कचित्सत्त्वम् कचिदसत्वम् ( गौ० वृ० ५/१/४ ) । यथा साध्या
 
-
 
-
 
विलोक.
निश्चयः ।
 
FIN