2023-11-26 06:09:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

K
 
तु
 
यक्ष
 
७३९
 
न्यायकोशः ।
 
प्रति महत्त्वविशिष्टविभुव्यावृत्तविशेषगुणः महत्त्वविशिष्टोद्भूतरूपोद्भूतस्प-

र्शान्यतरद्वा कारणम् इति कार्यकारणभावो ज्ञेयः (सि० च० पृ० ८)।

बहिर्द्रव्य प्रत्यक्षं प्रति आत्मावृत्तिशब्द भिन्नविशेषगुणवत्त्वं प्रयोजकम् इति

वा कार्यकारणभावः । तेन वायोः प्रत्यक्षत्वमुपपद्यते । वायुं स्पृशामि

इत्यनुभवाच्च । अत्रेदमधिकं ज्ञेयम् यथा प्रभागतमेकत्वं गृह्यते तथा वायु-

गतमेकत्वमपि गृह्यत एव । क्वचित् सजातीयसंवलनाभावे द्वित्वपरिमाणा-

दीनि गृह्यन्ते । तद्ब्रहश्च भूयोवयवावच्छेदेन त्वगिन्द्रियसंनिकर्षस्थले

बोध्यः । क्वचित् संख्यापरिमाणाद्यग्रहः सजातीयसंवलनादिरूपदोषात्

इति । सजातीयसंवलनदशायाम् भूयोवयवावच्छेदेन त्वगिन्द्रियसंनि-

कर्षाभावे च इत्यर्थः (दि० १ वायुनि० पृ० ११४ ) । फूत्कारादिरूपे

वायौ संख्याद्युपलभ्यत इत्यप्यत्र बोध्यम् (वै० उ० २।१२।९ पृ० ८३ )

( त० व० ३।४६ ) । मीमांसका अपि वायुर्बाह्येन्द्रियप्रत्यक्ष इत्यङ्गी-

चक्रुः (प० मा० ) । तन्मते महदुद्भुतस्पर्शवद्रव्यमेव त्वचो योग्यम् न

तु केवलमुद्भूतरूपवद्रव्यम् इति कार्यकारणभावे निवेश्यमिति भावः

( म० प्र० १० ) । एतन्मते प्रभाया अप्रत्यक्षत्व इष्टापत्तिरेव शरणम्

इति मन्तव्यम् । तन्न योग्यम् । इह पक्षी नेह पक्षी इति प्रतीतेः प्रभा-

मण्डलरूपदेशविषयिण्याः सर्वानुभवसिद्धायाः संभवात् ( म० प्र० १

पृ० ११ ) इति । पाश्चात्यास्तु प्राणाख्यं वायुं जलस्य समवायिकारण-

मङ्गीचक्रुः । २ उत्तरपश्चिमवि दिगधिपतिर्देवता विशेषः इति पौराणिका

आहुः । ३ देहस्थधातुविशेषः इति भिषज आहुः । ४ परमात्मैव इत

वेदान्तिनः प्राहुः । वायुत्वं च त्वगिन्द्रिय समवेतत्वे सति द्रव्यत्वसाक्षा-

याप्यजाति: ( सर्व० सं० पृ० २१८ औ ० ) ।
 

 
<
वारणम् - >
[क] क्रियाधर्मिक निवृत्त्यनुकूलव्यापारः । यथा कूपादन्धं

वारयति विषाद्वालं निवारयतीत्यादौ धात्वर्थो वारणम् । क्रियां च पतन-

( भोजनादिर्विशेषतो ग्राह्या । अत्र धात्वर्थघटकनिवृत्तौ पञ्चम्या कूपादि-

प्रकारकत्वम् द्वितीयया चान्धादिनिष्ठत्वं प्रत्याय्यते । तथा च अन्ध-

निष्ठायाः पतनधर्मिककूपप्रकारकनिवृत्तेः बालनिष्ठायाश्च भोजनधर्मिक-