This page has not been fully proofread.

७३८
 
आहारेषु पाकार्ये बहेः
 
न्यायकोशः ।
समुन्नयनात्समानः ।
 
ऊर्ध्वं नयनादुदानः ।
● नाडीमुखेषु वितननाद्यान: (प० मा० ) ( दि० ११२ पृ० ८५) इति ।
● क्रियाभेदाच्चान्या अपि पञ्च संज्ञा यथा नागः कूर्मः कुकल: देवदत्तः
• धनंजयः इति ( सि० च० ) ( मु० १ पृ० ८५ ) । तदुक्तम् उद्गारे
नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो
विजृम्भणे ॥ न जहाति मृतं चापि सर्वव्यापी धनंजयः इति । अत्र
 
• पुस्तकान्तरे पोषणस्य हेतुर्धनंजयः इत्युक्तम् ( सि० च० ) ।
कृकरः इत्यत्र च कृकल इत्यपि पाठान्तरम् । वायौ नव गुणास्तिष्ठन्ति ।
स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोग: विभागः परत्वम् अपरत्वम्
संस्कारश्चेति ( प्रशस्त ० ) ( भा०प० ) ( त० मा० ) । स्पर्शस्त्वत्रा
पाकजोनुष्णाशीत स्पर्शोभिप्रेतः (मु० ) ( प्रशस्त० पृ० ५ ) । परिमाण
परममहत्त्वातिरिक्तम् । संस्कारस्तु वेगः स्थितिस्थापकोपि इति केचिदाहु
( त० कौ ) । वायुर्न प्रत्यक्षः किं तु स्पर्शादिना अनुमेयः इति प्राथ
आहुः । तत्र युक्तिः । वायुयेदि प्रत्यक्षः स्यात्तदा घटादिवत् तदीय
• संख्या दिसामान्यगुणोपलम्भोपि तत्र स्यात् । न चैवम् । तस्मान्न प्रत्यक्षः
इति ( त० व० १ ।३।४५) । वायोरप्रत्यक्षत्वं सूत्रकारैरुक्तम् / ता
च सूत्रम् स्पर्शश्च वायोः (३० २११/९ ) इति । तदर्थश्च लिङ्गम् ३
शेषः । चकाराच्छब्दधृतिकम्पाः समुच्चीयन्ते । तथा च
अनुभूयते स कचिदाश्रितः स्पर्शत्वात् पृथिव्यादिस्पर्शवत् इति सामान्य
दृष्टेन स्पर्शाश्रयसिद्धी स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूप
नाकाशादिपञ्चात्मकः स्पर्शवत्त्वात् इति इतरबाधग्रहसहकृतेन अनुमान
अष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । एवम् शब्दधृतिकम्पा अपि वायौ लिङ्ग
अज्ञेयानि (वै० उ० २/१/९-१० पृ० ८१-८४ ) ( त०
(मु० १ ) । प्राचां मते च विषयतासंबन्धेन बहिर्द्रव्यप्रत्यक्षं
समवायेन महत्त्वविशिष्टोद्धृतरूपमुद्भुतस्पर्शश्च कारणम् इति का
 
योयं
 
रणभावो ज्ञेयः (सि
 
० च० १ पृ० ८) (त० प्र० ) । एवं
 
•णाभावान प्रत्यक्षम् इति बोध्यम् ( मुं० १ पृ० ११३ ) / न
वायुः प्रत्यक्षः इत्यङ्गचक्रुः (त० प्र० ) । एतन्मते तु बहिर्द्रव्य
 
इति
 
स्पर्शी
 
दी