2023-11-26 06:08:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७३७
 
स्यापि नानात्वं संमूर्छनेनानुमीयते । अत्र सूत्रम् वायोर्वायुसंमूर्छनं नानात्व-

लिङ्गम् (वै० २११।१४) इति । संमूर्छनं पुनः समानजवयोर्वाय्वोर्विरुद्ध-

दिक्रिययोः संनिपातः । सोपि संनिपातः सावयविनोर्वाय्वोरूर्ध्वगम-

नेनानुमीयते। तच्च वाय्वोरूर्ध्वगमनम् प्रत्यक्षेण तृणादिगमनेन अनु-

मीयते ( प्रशस्त० वायुनि० पृ० ५) (वै० उ० २११।१४ ) इति ।

अत्र भाष्यकारा आहुः । कार्यलक्षणः अनित्यो वायु: चतुर्विधः शरीरम्

इन्द्रियम् विषयः प्राणः इति । तत्र (१) अयोनिजमेव शरीरं मरुतां

लोके । पार्थिवावयवोपष्टम्भाञ्चोपभोगसमर्थम् । (२) इन्द्रियं सर्वप्राणिनां

स्पर्शोपलम्भकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वक् ।

(३) विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गः

तिर्यग्गमनस्वभावकः मेघादिप्रेरणधारणादिसमर्थः । (४) प्राणोन्तःशरीरे

रसमलधातूनां प्रेरणादिहेतुः एकः सन् क्रियाभेदादिभिरपाना दिसंज्ञां

लभते (प्रशस्त० पृ० ५ ) (प० मा० ) इति । नव्यास्त्वित्थं वदन्ति ।

अनित्यस्त्रिविधः शरीरम् इन्द्रियन् विषयश्च । तत्र शरीरम् वायुलोके

प्रसिद्धम् । पिशाचादीनामपि वायुशरीरम् अयोनिजं च (मु० १

वायुनि० पृ० ८४ ) ( त० कौ० ) । अत्रेदमवधेयम् । एतच्छरीरस्य

पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् । तेन वायोस्ताल्यादिव्यापाराभावात्

करचरणाद्यभावेन चाहरणविहरणाद्यभावात् कथं तादृशशरीरस्य भोगा-

यतनत्वम् इत्याशङ्कानवकाश: ( दि० १ पृ० ८४ ) ( प० मा० ) इति ।

इन्द्रियं स्पर्शग्राहकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं त्वक् सर्वशरीर-

वृत्ति । विषयो वृक्षादिकम्पनहेतुः उपलभ्यमानस्पर्शाश्रयो महावाय्वादिः

( भा० प० श्लो० ४५ ) ( त० सं० ) । प्राणोपि विषयो वायुः ।

सोन्तः शरीरे रसमलधातुपित्तकफादीनां प्रेरणधारणादिहेतुः । स चैकोपि

दारूपोपाधिभेदात् मुखनिर्गमादिक्रियाभेदाच्च पञ्च संज्ञा लभते ।

तत्र स्थानभेदाद्यथा प्राणोपानो व्यान उदानः समानः इति । तदुक्तम्

हृदि प्राणो गुदेपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो

व्यानः सर्वशरीरगः ॥ ( अमर० १/६७ टी० ) इति । तथा

मुखनासिकाभ्यां निष्क्रमणप्रवेशनाप्राणः । मलादीनामधो नयनादपानः ।
 

 

९३ न्या० को०