This page has not been fully proofread.

न्यायकोशः ।
 
र्षाभावेनाभावज्ञाने हेतुत्वाभावात् । इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञाना-
र्थमुपक्षीणत्वेनान्यथा सिद्धेः (वेदान्तपरि०) इति मायावादिनो वेदान्तिनः ।
अत्र नैयायिकाः तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धि सहकृतेनेन्द्रियेणैवा-
भावज्ञानोपपत्तावनुपलब्धेः प्रमाणान्तरत्वासंभव इत्याहुः (तदी० १८) ।
तदर्थश्च - तर्किता आपादिता प्रतियोगिनो घटादेः सत्त्वस्य सत्त्व प्रसक्ते-
विरोधिनी या उपलब्धिस्तत्प्रतियोगिकः अभावोनुपलब्धिस्तत्सहकृतेनेति
( नील० १८ ) । तथा हि । घटोपलब्धौ घटाभावाग्रहात् प्रतियोग्य-
नुपलब्धिरभावप्रत्यक्षे इन्द्रियस्यैव सहकारिणी । न तु प्रमाणान्तरम् । इन्द्रि-
येणैवाभावप्रत्यक्षोपपत्तेः । अन्यथा अभावप्रत्यक्षस्येन्द्रियजन्यत्वानङ्गीकारे
इह घटो नास्ति इति निर्णयानन्तरं इह घटाभावं साक्षात्करोमि इति
साक्षात्कारविषयक प्रतीत्यनुपपत्तेः ( त० कौ०१७-१८ ) । तथा च
अनुपलब्धिसहकृतेन्द्रियग्राह्यत्वात् अनुपलब्धिग्राह्यः इत्युपचर्यते ( गौ०
वृ० ५ । १ । ३० ) । अनुपलब्धिर्द्विविधा । अज्ञाता ज्ञाता च । तत्राज्ञाता-
नुपलब्धिस्थले इन्द्रियेणैवाभावग्रहः । तावत्पर्यन्तमिन्द्रियव्यापारस्य विद्य-
मानत्वात् । अनुपलब्धिस्तु सहकारिमात्रम् । ज्ञातानुपलब्धिस्थले खनु-
मानम् इति नानुपलब्धिर्मानान्तरम् ( त० व० ९९ ) । यत्र त्वज्ञाता
अनुपलब्धिः कारणं तत्प्रत्यक्षम् । ज्ञातानुपलब्धिजन्या भावज्ञानस्यानुमान-
त्वम् ( कु० व्या० ३।३९ ) ।
 
२५
 
अनुपलब्धिसमः - (जाति: ) [क] तदनुपलब्धेरनुपलम्भादभावसिद्धौ
तद्विपरीतोपपत्तेरनुपलब्धिसमः ( गौ० ५। १ । २९ ) । प्रतिकूलतर्क देश-
नाभासोयमिति ज्ञेयम् ( गौ० वृ० ५ । १ । २९ ) । [ख ] अनुपलब्धेर-
प्यनुपलब्धिस्तस्या अप्यनुपलब्धिरित्येवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः ।
नैयायिकैस्तावच्छब्दानित्यत्वमेव साध्यते । यदि शब्दो निर्यः स्यादु-
चारणाप्राक् कुतो नोपलभ्यते । न हि घटाद्यावरणकुड्यादिवत् शब्दस्या-
वरणमस्ति तदनुपलब्धेरिति । तत्रैवं जातिवादी प्रत्यवतिष्ठते । यद्यावरणा-
नुपलब्धेरावरणाभावः सिध्यति तदा आवरणानुपलब्धेरप्यनुपलम्भादावर-
णानुपलब्धेरण्यभावः सिध्येत् । तथा चावरणानुपलब्धिप्रमाणक आव
 
न्या० को० ४