2023-11-26 06:06:58 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

1
 
७३५
 
न्यायकोशः ।
 
तन्मते कारणमेव कार्यरूपेण परिणमते इति कार्यकारणयोरनन्यत्वम्

सत्यत्वं च । यथा दुग्धं सदेव दधिरूपेण परिणमते इति दधि कार्या-

न्तरं दुग्धाद्भिन्नं च न भवति इति । विवर्तवादो मायावादिवेदान्तिनाम् ।

तन्मते कारणमेव कार्यस्वरूपेण भासते इति कारणस्यैव सत्यत्वम् न तु

कार्यस्य सत्यत्वम् । यथा शंकरभारतीमते शुक्तौ इदं रजतम् इति ज्ञाना-

नन्तरमधिष्ठानभूतशुक्तिज्ञाने जाते बाधज्ञानेन पूर्व ज्ञातं रजतं यथा

निवर्तते तद्वत् ब्रह्मज्ञाने जाते सति जगदादिभेदप्रपञ्चो निवर्तते इति ।

असत्कार्यवादस्तु आरम्भवादः इत्युच्यते । स च नैयायिकानाम् माध्व-

वेदान्तिनां च । तन्मते असदेव कार्यमुत्पद्यते । यथा पूर्वमसदेव तत्त-

Gटादिकार्य दण्डचऋचीवरादिसामग्रीसमवहितान्मृदादिकारणाद्भिन्नं सदु-

त्पद्यते इति । अत्रायं भावः । खोत्पत्तेः पूर्वं तत् कार्ये नासीदेव ।
 
NAD
 

पश्चात्कारणसामग्रीवशादुत्पद्यते इति कार्यकारणयोरन्यत्वम् परमार्थतः

सत्यत्वं च इति । एवम् विज्ञानवादो योगाचारबौद्धानाम् शून्यवादो

माध्यमिकबौद्धानाम् स्याद्वाद आईतानाम् इत्यादिकं च तत्तच्छास्त्राज्ज्ञेय-

मित्यत्रैव विरम्यते ।
 
वादनम् –

 
<वादनम्>
अभिघाताख्यसंयोगावच्छिन्नक्रिया । यथा भेरीमृदङ्गं वादयेत्यादौ

णिजन्तवदधात्वर्थः ( दि० ४ पृ० १८३ ) । वाद्यभेदा उच्यन्ते । तालेन

राजते गीतं तालो वादित्रसंभवः । गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥

ततं सुषिरमानद्धं घनमित्थं चतुर्विधम् । ततं तन्त्रीगतं वायं वंशायं

सुषिरं तथा ॥ चर्माबनद्धमानद्धं घनं तालादिकं मतम् इति । तत्र

अलावनीप्रभृति ततम् इत्युच्यते । वंश पारि मधुरी तित्तिरी इत्यादिकं

सुषिरम् इत्युच्यते । मर्दल मुरज पटह ढक्का पणव करटक मठ भेरी

इत्यादिकम् आनद्धम् इत्युच्यते । घनं तु अनुरक्तविरक्तभेदेन द्विविधम् ।

करतालकांस्यतालभेदेन द्वादशविधं चेति । अत्राधिकं लक्षणविभागादिकं

तु संगीतदा मोदरादौ द्रष्टव्यम् (वाच० ) ।
 
www
 
Www

 
<
वादी>
१ [क] प्रकृतसाध्यसाधनाय न्यायप्रयोगकर्ता । यथा पर्वते

साधने विपरीतोद्भावकस्य प्रतिवादिनो निवृत्त्यर्थं वादी प्रतिज्ञादि-