2023-11-26 06:06:28 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७३४
 
न्यायकोशः ।
 
चा
<वाटपरिक्षेपः
>
शालासमुदायरक्षणाय सर्वतो मार्गप्रतिरोधकं यत्परितः

क्षिप्यते तदुच्यते (भाष्यप्रदीपोद्योते १।१।७ ) ।
 

 
<
वात्स्यायनः ->
१ न्यायसूत्रभाष्यकारः पक्षिलाख्यो मुनिविशेषः । २ काम

शास्त्रप्रतिपादकसूत्रकर्ता। ३ वत्सगोत्रापत्यं युवा इति वैयाकरणा वदन्ति ।

 
<
वाद: - >
१ ( कथा ) [ क ] प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः

पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ( गौ० १।२।१ ) । तदर्थ

तेन जल्पविशेषे नातिव्याप्तिः । निग्रहस्थानविशेषनियमार्थे सिद्धान्तेत्यादि

प्रमाणाभासत्व प्रकारकज्ञान विषयकरणकसाधनोपालम्भयोग्यान्यः इति ।

विशेषणद्वयम् ( गौ० वृ० १ । २।१) । एकाधिकरणस्थौ विरुद्धौ धर्मों

पक्षप्रतिपक्षौ प्रत्यनीकभावादस्त्यात्मा नास्त्यात्मेति । नानाधिकरणौ

विरुद्धौ न पक्षप्रतिपक्षौ । यथा नित्य आत्मा अनित्या बुद्धिरिति । परि

प्रमाणतर्कसाधनोपालम्भः । प्रमाणैस्तर्केण च साधनमुपालम्भश्वास्मि

ग्रहोभ्युपगमव्यवस्था । सोयं पक्षप्रतिपक्षपरिग्रहो वादः । तस्य विशेषणं

क्रियत इति । साधनं स्थापना। उपालम्भः प्रतिषेधः (वात्स्या ० १/२/१//

सूत्रतात्पर्य तार्किकरक्षायामुक्तम् तत्र प्रमाणतर्काभ्यां साधनाक्षेपसंयुता ।

वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ॥ ( ता० र० लो० ७७)

इति । वादश्च अष्टनिग्रहाणामधिकरणम् । ते च न्यूनाधिकाप

सिद्धान्ताः हेत्वाभासपञ्चकं चेत्यष्टौ निग्रहाः (त० मा० पृ० ४४ ) /

[ख] प्रमाणाभासत्वप्रकारकज्ञान विषयकरणकसाधनोपालम्भयोग्यान्यत्वे

सति पक्षप्रतिपक्षसाधनोद्देश्यकोक्तिप्रत्युक्तिरूपवचनसंदर्भ : (गौ० वृ०

११२।१ ) । [ग] नानाप्रवक्तृकः प्रत्यधिकरणसाधनोन्यतराधिकरण

निर्णयावसानो वाक्यसमूहः (वात्स्या० १/१/१ पृ० ८) । [६]त

निर्णयफल: कथाविशेष: ( सर्व० पृ० २३९ अक्ष० ) । यथा वाद

प्रवदतामहम् ( गीता० १०।३२) इत्यादौ । [ङ ] तत्त्वबुभुत्सोः व

( त० मा० पृ० ४४ ) । २ स्वाभिमतार्थकथनम् । अयं वादो द्विविध

सत्कार्यवादः असत्कार्यवादश्च । तत्र सत्कार्यवादोपि द्विविधः परिणा

वादः विवर्तवादश्च । तत्र परिणामवादः सांख्यानाम् रामानुजीयानां