न्यायकोशः /785
This page has not been fully proofread.
न्यायकोशः ।
७३१
यथा वह्निना सिञ्चति हृदो वह्निमान् इत्यादि वाक्यम् । अत्र वाक्य-
दोषाश्चत्वारः भ्रमः प्रमाद: विप्रलिप्सा कर्णापाटवं चेति । तत्र एक-
पदार्थे अपरपदार्थसंसर्गारोपो भ्रमः । अवाच्ये वाच्यत्वारोपः प्रमादः ।
अन्यथा ज्ञातस्यार्थस्यान्यथा बोधयितुमिच्छा विप्रलिप्सा । शब्दोच्चारणा-
नुकूलताल्या दिव्यापारशून्यत्वं कर्णापाटबम् इति । आकाङ्क्षायोग्यता-
सत्तिसत्त्वे भ्रमादिदोषाणामसंभवः इति च बोध्यम् ( म०प्र० ) ।
नैयायिकमते वाक्यं त्रिविधम् सुबन्तसमूहः तिङन्तसमूहः सुप्तिङन्त-
समूहश्चेति । तत्राद्यः त्रयः काला इति । द्वितीयः पचति भवति इति ।
तृतीयस्तु चैत्रः पचतीत्यादि । त्रयः काला इत्यत्र वर्तमानत्वासंभवेन
सन्ति इत्येतस्य दुर्ज्ञानत्वेन च ज्ञायन्ते इत्येतस्य नाध्याहारसंभवः ।
प्रकारान्तरेण वाक्यं द्विविधम् वैदिकं लौकिकं च । तत्र वैदिकमीश्वरो -
क्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यत् (अना-
तोक्तम् ) अप्रमाणम् (त० सं० ) । तत्र वेदघटकं वाक्यं वैदिकम्
( वाक्य० ४ पृ० २० ) । तस्येश्वरोक्तत्वे प्रमाणमनुमानम् । तच्च वेदः
पौरुषेयो वाक्यत्वाद्भारतादिवत् इति ( त० दी० ४ पृ० ३२ )
( सि०
० च० ४ पृ० ३२ ) । अत्राधिकं तु वेदशब्दव्याख्याने दृश्यम् ।
वैदिकं सर्वमेव प्रमाणमित्यत्र सर्वमेयस्य अबाध्यं वाक्यं सर्वमेवेत्यर्थः ।
तेन आत्मा वै जायते पुत्रः इति वेदस्याप्रामाण्येपि न क्षतिः । स्मृति-
पुराणेतिहाससदाचाराणां वेदमूलकत्वेन प्रामाण्यम् । तन्मूलवेदानामिदानी -
मनुपलभ्यत्वेन शाखाः काश्चिदुच्छिन्ना एव इति कल्प्यते ( सि० च० ४
पृ० ३२ ) ( त० दी० ४ पृ० ३३ ) । लौकिकं वाक्यं तु यद्धर्म-
बुद्ध्या आप्तेनोक्तं तदेव प्रमाणमित्यर्थः । तेन बृहस्पतिप्रणीत नास्तिक-
सूत्रव्युदासः ( सि० च० ४ पृ० ३२ ) । प्रकारान्तरेणापि वाक्यं
द्विविधम् महावाक्यम् अवान्तरवाक्यं ( खण्डवाक्यम् ) चेति । तत्र
• महावाक्यं च स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् ( श० प्र०
श्लो० ३० टी० पृ० ३८ ) ।
वाक्यार्थः -[क] एकपदार्थवदपरपदार्थ: ( श० प्र० श्लो० ४ टी०
पृ० ५) । [ख] पदोपस्थितानां अर्थानाम् मिथः संसर्गः (त०