2023-11-26 05:55:59 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७३०
 
न्यायकोशः ।
 
शक्यार्थद्वये संभवति एकार्थनिर्णयैकविशेषाभावादनभिप्रेतशक्यार्थकल्पनेन

दूषणाभिधानम् तद्वाक्छलम् ( गौ० वृ० १ । २ । १२ ) इति । [ख]

शक्तयैकार्थशाब्दबोधतात्पर्यकशब्दस्य शक्तया अर्थानतरतात्पर्यकत्वकल्पना

दूषणाभिधानम् । अत्रोच्यते अभिधावैपरीत्येन कल्पितार्थस्य बाधनम्

( ता० २० १ श्लो० ९५) इति । यथा नेपालादागतोयं नवकम्बलव

त्त्वादित्युक्ते कुतोस्य नवसंख्याकाः कम्बलाः इति । एवम् गौर्विषाणीत्युक्ते

कुतो गजस्य शृङ्गम् श्वेतो धावति इति श्वेतरूपवदभिप्रायेणोक्ते श्वेतो (श्वा

इतः) न धावति इत्यभिधानम् इत्यादिकमूह्यम् ( गौ० वृ० १/२/१२ ) । ।

 
<
वाक्पारुष्यम्>
देशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः १

कूलार्थ वाक्पारुष्यं तदुच्यते ॥ ( मिताक्षरा अ० २/२०४ ) ।
 
वाक्यम्-

 
<वाक्यम्>
[क पदसमूहः । वाक्यत्वं च विशिष्टार्थपरशब्दत्वम् (चि० ४ ) । ।
 

वाक्यं द्विविधम् प्रमाणवाक्यम् अप्रमाणवाक्यं चेति । तत्र प्रमाणवाक्यम् ।

आकाङ्क्षायोग्यतासंनिधिमतां पदानां समूहः । यथा गामानय इत्यादि ।
 

(त० भा० ४ ) (त० सं०) (सा० ५० ) । अथवा यादृशशब्दाना

याशार्थ विषयताकबोधं प्रति अनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तीम

एव तथाविधार्थे वाक्यम् ( श० प्र० लो० १२ टी० पृ० १४///

वैयाकरणास्तु एकतिङ् इत्याहुः ( महाभा० ) । एकतिङन्तार्थमुक्त
 

विशेष्यकबोधजनकपदसमूहः इत्यर्थः । तेन पचति भवति पश्य मृगो

धावति ब्रूहि ब्रूहि देवदत्त इत्यादौ च क्रियापदस्यानेकत्वेपि नैकवाक्यता

व्याघातः इति । सुप्तिङन्तचयो वाक्यम् इत्यमरसिंह आह । केचितु

स्वार्थबोधसमाप्तः पदसमुदाय: इत्याहुः । समभिव्याहारो वाक्यम् इति

मीमांसका आहुः । तदर्थश्च साध्यत्वादिवाचकद्वितीयाद्यभावेपि वस्तुतः

शेषशेषिवाचकपदयोः सहोच्चारणम् । यथा यस्य पर्णमयी जुहूर्भवति न

पाप श्लोक शृणोति ( तैत्ति ० संहिता ० ३१५/७ ) इति । लिडाविषय

घटितं वाक्यं द्विविधम् विधिः निषेधश्च । तत्र विधिः स्वर्गकामो जे

वाक्यम् ( लौ० भा० ) । अप्रमाणवाक्यं तु आकाङ्क्षादिरहितं वाक्यम्/

इत्यादि वाक्यम् । निषेधस्तु न कलखं भक्षयेत् न सुरां पिबेत् इत्याि