2023-11-26 05:55:13 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७२९
 
नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः ॥ ( वहि- पु० ) इति । शरीर-

स्थवर्नामानि यथा बहयो दोषदृष्येषु संलीना दश देहिनः इति ।

दोषदूष्याश्च यथा वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः

( शा० ति० ) इति । २ तान्त्रिकास्तु रकारः । यथा वर्गाद्यं वह्निसंस्थम्

( श्यामास्तोत्रम् ) इत्यादौ इत्याहुः । ३ भल्लातकः ४ निम्बूकश्च इति

भिषज आहुः (राजनि० ) । ५ वह्निदेवताकं कृत्तिकानक्षत्रम् इति

ज्योतिषज्ञा आहुः । ६ आधिदैविकः शाण्डिल्यगोत्रो मेषवाहनो हुताशनः

इति कर्मवादिमीमांसका आहुः । ७ वैश्वानराद्यपरनामा परमात्मा इति

वेदान्तिन आहुः ।
 
वा-

 
<वा>
(अव्ययम्) १ विकल्पः । यथा यवैर्वा व्रीहिभिर्वा यजेत इत्यादौ ।

१८८२ सादृश्यम् । यथा सिन्धौ वाधोमण्डलं गोर्वा रसः इत्यादौ । यथा वा

मणी वोष्टस्य लम्बेते प्रियौ वत्सतरौ मम ( सि० कौ० ) इत्यादौ । यथा
 

वा आशीविषो वा संक्रुद्धः इत्यादौ । ३ अवधारणम् । यथा सा वा
!

शंभोस्तदीया वा मूर्तिर्जलमयी मम इत्यादौ । न तृतीया इत्यर्थः ।

४ समुच्चयः । यथा वायुर्वा दहनो वा ( गणरत्न० ) इत्यादौ ।

५ वितर्कः । यथा ज्वरितेन भवता पीतं वा दुग्धम् कृतं वा अपथ्यं

भवेत् इत्यादौ । ६ प्रश्नः । यथा तत्र भवता गम्यते वा इत्यादौ ।

७ कचित् वाक्यालंकारार्थः । ८ चेत् इत्यर्थः । यथा सुप्तिङन्तचयो

वाक्यं क्रिया वा कारकान्विता (अमरः ) इत्यादौ इति नागेशभट्ट आह

शब्देन्दुशेखरे ।
 

 
<
चाक्छलम्>
( छलम् ) [क] अविशेषाभिहितेर्थे वक्तुरभिप्रायादर्थान्तर-

कल्पना वाक्छलम् (गो० ११२/१२ ) । नवकम्बलोयं माणवक इति

प्रयोगः । अत्र नवः कम्बलोस्य इति वक्तुरभिप्रायः । विग्रहे तु विशेषो

न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यमर्थम् नव

कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा

चासंभवेन प्रतिषेधति एकोस्य कम्बलः कुतो नव कम्बलाः इति । तदिदं

सामान्यशब्दे वाचि च्छलं वाक्छलमिति ( वात्स्या० १/२/१२) । यत्र
 

९२ न्या० को०