न्यायकोशः /783
This page has not been fully proofread.
न्यायकोशः ।
७२९
नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः ॥ ( वहि- पु० ) इति । शरीर-
•स्थवर्नामानि यथा बहयो दोषदृष्येषु संलीना दश देहिनः इति ।
दोषदूष्याश्च यथा वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः
( शा० ति० ) इति । २ तान्त्रिकास्तु रकारः । यथा वर्गाद्यं वह्निसंस्थम्
( श्यामास्तोत्रम् ) इत्यादौ इत्याहुः । ३ भल्लातकः ४ निम्बूकश्च इति
भिषज आहुः (राजनि० ) । ५ वह्निदेवताकं कृत्तिकानक्षत्रम् इति
ज्योतिषज्ञा आहुः । ६ आधिदैविकः शाण्डिल्यगोत्रो मेषवाहनो हुताशनः
इति कर्मवादिमीमांसका आहुः । ७ वैश्वानराद्यपरनामा परमात्मा इति
वेदान्तिन आहुः ।
वा- (अव्ययम्) १ विकल्पः । यथा यवैर्वा व्रीहिभिर्वा यजेत इत्यादौ ।
१८८२ सादृश्यम् । यथा सिन्धौ वाधोमण्डलं गोर्वा रसः इत्यादौ । यथा वा
मणी वोष्टस्य लम्बेते प्रियौ वत्सतरौ मम ( सि० कौ० ) इत्यादौ । यथा
वा आशीविषो वा संक्रुद्धः इत्यादौ । ३ अवधारणम् । यथा सा वा
! शंभोस्तदीया वा मूर्तिर्जलमयी मम इत्यादौ । न तृतीया इत्यर्थः ।
४ समुच्चयः । यथा वायुर्वा दहनो वा ( गणरत्न० ) इत्यादौ ।
५ वितर्कः । यथा ज्वरितेन भवता पीतं वा दुग्धम् कृतं वा अपथ्यं
भवेत् इत्यादौ । ६ प्रश्नः । यथा तत्र भवता गम्यते वा इत्यादौ ।
७ कचित् वाक्यालंकारार्थः । ८ चेत् इत्यर्थः । यथा सुप्तिङन्तचयो
वाक्यं क्रिया वा कारकान्विता (अमरः ) इत्यादौ इति नागेशभट्ट आह
शब्देन्दुशेखरे ।
चाक्छलम् – ( छलम् ) [क] अविशेषाभिहितेर्थे वक्तुरभिप्रायादर्थान्तर-
कल्पना वाक्छलम् (गो० ११२/१२ ) । नवकम्बलोयं माणवक इति
प्रयोगः । अत्र नवः कम्बलोस्य इति वक्तुरभिप्रायः । विग्रहे तु विशेषो
न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यमर्थम् नव
कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा
चासंभवेन प्रतिषेधति एकोस्य कम्बलः कुतो नव कम्बलाः इति । तदिदं
• सामान्यशब्दे वाचि च्छलं वाक्छलमिति ( वात्स्या० १/२/१२) । यत्र
९२ न्या० को०