2023-11-26 05:54:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<वसन्तः>
मीनमेषयोर्मेषवृषभयोर्वा वसन्त इति बौधायनोक्तेमना दिसौरमास-

द्वयात्मको मेषादिसौरमासद्वयात्मको वा बसन्तः (पु० चि० पृ० ८ ) ।

 
<
वसु - >
१ अष्टमी तिथि: ( पुरु० पृ० ३७) । २ धरो ध्रुवस्तथा सोम

आपश्चैवानिलोनलः । प्रत्यूषश्च प्रभातश्च वसवोष्टौ प्रकीर्तिताः ॥
 

( मिताक्षरा अ० २ श्लो० १०२ ) ।
 

 
<
वस्तु>
संकेत विषयः । यथा घटगगनादि । वस्तुत्वं च प्रमेयत्वम् स्वरूप.

संबन्धविशेषो वा ( म० प्र० ख० २ पृ० २३ ) ( त० प्र० २

पृ० ३९) । वस्तु द्विविधम् बाह्यम् अबाह्यं च । तत्र आत्मा तद्योग्य-

गुणास्तद्वृत्तिजातिः स्वर्गापूर्वादि चैतान्यबाह्यवस्तूनि मनसा श्रुत्यनुमाना-

दिना च वेद्यानि च । एतदन्यानि तु बाह्यवस्तूनि ।
 

 
<
वह>
( धातुः ) नयनशब्दवदस्यार्थोनुसंधेयः (ग० व्यु० का० २ पृ०

४६) । यथा वहति अवाक्षीत् इत्यादी । अस्य प्रधानकर्मण्येव लका-

रादयो भवन्ति । गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् / बुद्धि

भक्षार्थयोः शब्दकर्मणां च निजेच्छया ॥ इत्यनुशासनात् । अत्राधिकं
 

च नयनदोहनशब्दव्याख्याने द्रष्टव्यम् ।

 
<
वहनम्>
नयनम् ।
 

 
<
वह्निः>
१ ( तेजः ) अग्निः । यथा पर्वतो वह्निमान् धूमादित्यादौ साध्य

भूतो वह्निः । अयं वह्निस्तु भौतिकः पार्थिवमात्रेन्धनं भौमं तेजः इति ।

विज्ञेयम् । अत्रेदं ज्ञेयम् । वह्नित्वेन धूमत्वेन च सर्वेषां वह्निधूमानां साष्य-

साधनभावः । न तु तत्तद्धूमतत्तद्वय दिव्यक्तीनाम् इति ।

प्रत्यासत्या तु सकलवहिधूमानां ज्ञेयता चेति । अग्निभेदादिकमक्तं यथा

जृम्भको दीपकश्चैव विभ्रमभ्रमशोभनाः । आवसथ्याहवनीयौ दक्षिणाभि

स्तथैव च ॥ अन्वाहार्यो गार्हपत्य इत्येते दश वह्नयः इति । अन्यच्च 3

रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारको बन्धकश्चैव द्वावकारख्य

सप्तमः ॥ व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः इति ।

कर्मणि मुख्याग्नयो यथा गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । '
 
७२८
 
मान्य.
 
आजको
 
श्रौते
 
एते.